________________
खण्डः - १ गा. ३८, ३९
मरणे विराहिए देवदुग्गई दुल्लहा य किर बोही । संसारो य अणंतो होइ पुणो आगमिस्साणं ।। ३८ ।।
मरणे विराधिते देवदुर्गतिः दुर्लभश्च किल बोधिः । संसारश्चानन्तो भवति पुनरागमिष्यताम् ।। ३८ ।।
भुव० यदि नाराधकास्ततः किमित्याह मरणे विराधिते निदानकरणादिना देवदुर्गतिर्भवति । दुर्लभश्च दुष्प्रापश्च किलेति | निश्चये ] आप्तोक्तौ बोधिः सम्यक्त्वबीजं भवति । संसारो य अणंतो त्ति अनन्तोऽनन्तपुद्गलपरावर्त्तपरिभ्रमणरूपः संसारो भवति । शब्दामरणमप्यनन्तं भवति । अथानुक्तं मरणं कथं भण्यते ? उच्यते अनन्तसंसारभ्रमणेन मरणमपि भणितं दृष्टव्यम्, अनन्तसंसारपरिभ्रमणस्य मरणपूर्वकत्वात् । संसारो य अतो भइ इति पाठे प्राकृतत्वाल्लिङ्गव्यत्ययः । अनन्तसंसारं भ्रमति । आगमिस्साणं ति अत्र प्राकृतत्वादागमिष्यत्काले ।। ३८ ।।
सोम० यदि च नाराधकास्ततः किमित्याह मरणे निदानकरणादिना विराधिते देवदुर्गतिर्भवति, दुर्लभश्च दुष्प्रापश्च किलेति निश्चये बोधिः सम्यक्त्वप्राप्तिर्भवति । प्राकृतत्वात् स्त्रीत्वम्, संसारश्चानन्तोऽनन्तपुद्गलपरावर्त्तभ्रमणरूपो चशब्दान्मरणमप्यनन्तं भवति, अनन्तसंसारभ्रमणस्य मरणपूर्वकत्वात् । 'भमइ' इति पाठे प्राकृतत्वाद् विभक्तिव्यत्ययोऽनन्तं संसारं भ्रमति । क्व ? ' आगमिस्साणं' ति एष्यत्काले इत्यर्थः, प्राकृतत्वादत्रापि विभक्तिव्यत्ययः ।। ३८ ।।
-
-
गुण मरणे विराधिते निदानादिना देवदुर्गतिर्भवति, दुर्लभो दुष्प्रापश्च किल आप्तो बोधिः । अनन्तपुद्गलपरावर्तपरिभ्रमणरूपः संसारो भवति । प्राकृतत्वात् वचनव्यत्ययः । अनन्तसंसारपरिभ्रमणमिति प्राकृतत्वादागमिष्यत्काले ।। ३८ ।।
का देवदुग्गई ? का अबोहि ? केणेव वुज्झई मरणं ? | केण अनंतमपारं संसारे हिंडई जीवो ? ।।३९।।
का देवदुर्गतिः ? काबोधि : ? केनैवोह्यते मरणम् ? केनानन्तमपारं संसारं हिण्डति जीवः ? ।। ३९ ।। भुव० किञ्च
Jain Education International 2010_02
६३
For Private & Personal Use Only
एतद् गाथार्थमनवबुध्यन् शिष्यश्चत्वारि पदानि प्रश्नयिष्यति,
www.jainelibrary.org