SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ४० ग्रन्थकारोऽपि सप्तभिर्गाथाभिश्चतुर्णा पदानामुत्तराणि दास्यतीत्यर्थः । अथ शिष्यस्तानि प्रश्नयन्नाह - का देवेषु दुर्गतिर्देवदुर्गति: ? को वाऽबोधिर्बोधिदुर्लभता ? केणेव वुज्झई मरणं ति केन च प्रकारेण हेतुना विशेषेणोडते पुन: पुनर्भावेन मध्यसमागतभारवदकामेनाऽपि स्वीक्रियते मरणमिति, केण अणंतंपारं ति अनन्तपार: पर्यन्तो यस्य कालस्य तमनन्तपारं कालम् । अनुस्वारलोपात् । अथवा अणंतंपारंति अकारलोपादपारंकालम्, केन हेतुना संसारे हिण्डते जीव इत्यर्थः ।।३९।। सोम0 अथ शिष्यश्चत्वारि प्रश्नान्याह - १ - का देवेषु दुर्गति ? २ - का चाबोधिः ? बोधिदुर्लभता ३-केन च प्रकारेणेति गम्यते, व्यूह्यते विशेषेणोह्यते पुनः पुनर्भावेन मध्यसमागतभारवदकामेनापि स्वीक्रियते, किम् ? मरणम्, ४-केन हेतुनेत्यत्रापि गम्यते, अनन्तः पारः पर्यन्तो यस्य कालस्य केन हेतुना संसारे हिण्डते जीव इत्यर्थः ।।३९।। गुण अथ शिष्यस्तानि प्रश्नयन्नाह - 'कादेव०' ।।३९।। कंदप्पदेव-किब्बिस-अभिओगा आसुरी य सम्मोहा । ता देवदुग्गईओ मरणम्मि विराहिए हुंति ।।४०।। कन्दर्पदेवकिल्बिषाभियोगा आसुरिश्च संमोहाः । ता देवदुर्गतयो मरणे विराधिते भवन्ति ।।४०।। भव. अथ प्रथमप्रश्नस्य निर्वचनमाह - कन्दर्पोऽट्टहासहसनं कन्दर्पकरणशीला: कन्दर्पाः कन्दपश्चिदेवाश्च कन्दर्पदेवाः । ये पुरा यद्विधा भवन्ति ते तद्विधेषु गच्छन्ति 'जल्लेसे मरइ तल्लेसे उववजइ' इति वचनात् । तत्स्वरूपं चेदम् - कहकहकहस्स हसणं कंदप्पो अणिहूआ य सल्लावा । कंदप्पकहाकहणं कंदप्पुवएस संसा या ।।१।। [पंच.व. १६३१] कंदप्पकुक्कुयाइं तह सील-सहाव-हसणविगहाहिं । विम्हावंतो य परं कंदप्पं भावणं कुणइ ।।२।। [उत्तरा० ३६-२६१] भूनयणवयणदसणत्थएहिं करचरणकन्नमाई हिं । तं तं करेइ जह जह हसइ परा अत्तणो अहसमिति ।।३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy