________________
खण्डः-९ गा. ४०
इति कन्दर्परूपा दुर्गतिः । किब्बिसत्ति किल्बिषं ज्ञानाद्याशातनादिकम् । तद्योगाद्देवा अपि किल्बिषिकाः । तथाहि
नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किव्विसियं भावणं कुणह ।।१।।
तद्रूपा देवदुर्गतिः । अभिओगित्ति अभियोजनमभियोगः शत्रूच्चाटनादिमन्त्रप्रयोजनम् । तद्योगाद्देवा अपि अभियोगाः । उक्तञ्च
-
मंताजोगं काऊं भूइकम्मं च जे पउंजंति ।
सायरसइड्डिहेड अभिओगं भावणं कुणइ । । १ । । [ उत्तरा० ३६-२६२]
६५
इत्यभियोगदेवरूपा दुर्गतिरित्यर्थः ।। आसुरियत्ति असुराणां भावः कर्म वा आसुरं, असुरेण चण्डकोपेन चरन्त्यासुरिकादेवा अपि । उक्तञ्च
अणुबद्धरोसपसरो तहानिमित्तंमि होइ पडिसेवी ।
एहिं कारणेहिं आसुरियं भावणं कुणइ । । १ । । [उत्तरा० ३६-२६४]
इत्यासुरिकदेवरूपा दुर्गतिः । संमोहत्ति संमोहयत्युन्मार्गदर्शनादिना मार्गान्मोक्षमार्गाद् भ्रंसयन्ति ये ते संमोहाः । उक्तञ्च
उमग्गदेसओ तु मग्गनासउ मग्गविपडिवत्तीय ।
मोहेण मोहयंतो संमोहं भावणं कुणइ ॥ १ ॥
इति संमोहरूपा देवदुर्गतिः । तादेवत्ति ता एता देवदुर्गतयो मरणे विराधितेऽपध्यानादिना भवन्ति । उक्तञ्च
एयाओ भावणाओ [भावित्ता ] देवदुग्गइं जंति ।
तत्तो चुआओ संता पडंति भवसागरमणंतं । । [ आरा० पडा० ७२१] इति गाथार्थः ।। ४० ।।
Jain Education International 2010_02
-
सोम ० प्रथमप्रश्नस्य उत्तरमाह १ - कन्दर्पोऽट्टट्टहासहसनं, कन्दर्पकरणशीलाः कन्दर्पाश्च ते देवाश्च कन्दर्पदेवाः, ये प्राग्भवे साधवो यद्विधा भवन्ति ते तद्विधेषु गच्छन्ति, “जं लेसे मरइ तं लेसे उववज्जइ” इति वचनात् । तत् स्वरूपं तु " कहकहकहस्स हसणं" इत्यादिगाथाभ्यो ज्ञेयमिति कन्दर्परूपा देवदुर्गतिः २ - किब्बिस त्ति किल्बिषं पापं ज्ञान - केवल्याद्याशातनादिकम्, तद्योगाद् देवा अपि किल्बिषिकाः, प्राक् संयतभवकृतज्ञानाद्याशातनादेव मातङ्गत्वेनोत्पन्ना इत्यर्थ एवंरूपा देवदुर्गतिः । ३-अभिओग त्ति अभियोजनम् अभियोगः शत्रूच्चाटनादिमन्त्रप्रयुञ्जनम्, प्राक्
For Private & Personal Use Only
www.jainelibrary.org