________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ४१
संयतभवे तद् योगाद्-देवा अप्यभियोगा महर्धिकसुराणां प्रेष्यकर्मकारिण एवंविधा देवदुर्गतिः । ४आसुरियत्ति असुराणां कर्मणा चण्डकोपेन चरन्तीति आसुरिकाः संयतभवे कृतचण्डकोपा असुरत्वेनोत्पन्नास्तथाविधा देवा अपि आसुरिका एवंरूपा देवदुर्गतिः । ५-संमोह त्ति सम्मोहयन्त्युन्मार्गदर्शनादिना मोक्षमार्गाद् भ्रंशयन्ति जीवान् ये ते सम्मोहाः संयता अप्येवंविधा देवत्वेनोत्पन्नाः सम्मोहा एवंरूपा देवदुर्गतिः । ता एता देवदुर्गतयो मरणेऽपध्यानादिना विराधिते सति भवन्ति, ततश्च्युताश्चानन्तं संसारं परिभ्रमन्ति ।।४०।।।
गुणः अथ प्रश्नस्य निर्वचनमाह - कन्दर्पोऽट्टहासहसनं कन्दर्पकरणशीलाः कन्दर्पाश्च ते देवाश्च कन्दर्पदेवाः । किल्बिषं पापं ज्ञानाद्याऽऽशातनादिकं, तद्योगाद्देवा अपि किल्बिषिकाः । अभियोजनमभियोगः, तद्योगाद्देवा अपि अभियोगाः । अभियोगरूपा दुर्गतिरित्यर्थः । असुराणां भावः कर्म वाऽसुरेण चण्डकोपेन चरन्त्यासुरिका देवा अपि । सम्मोहयन्त्युन्मार्गदर्शनादिना मार्गान्मोक्षमार्गाद् विध्वंसयन्ति ये ते सम्मोहाः ता एता देवदुर्गतयो मरणे विराधितेऽपध्यानादिना भवन्ति ।।४०।।
मिच्छादसणरत्ता सनियाणा किण्हलेसमोगाढा । इह जे मरंति जीवा तेसिं दुलहा भवे बोही ।।४१।। मिथ्यादर्शनरक्ताः सनिदानाः कृष्णलेश्यावगाढाः ।
इह ये म्रियन्ते जीवास्तेषां दुर्लभो भवेद्बोधिः ।।४१।। भुव० का देवदुग्गइ इत्यस्य प्रश्नस्य निर्वचनमुक्तमथ का अबोहीत्यस्य सविपक्षस्य निर्वचनमाह-मिथ्यादर्शनं विपर्यस्तदर्शनं मिथ्यात्वं तत्र रताः । यत आर्षम् - "कहन्नं भंते समणा निग्गंथा मोहणिज्जा कम्मं वेयंति ? गोयमा ! तेहिं तेहिं नाणंतरेहिं दंसणंतरेहिं चरित्तंतरेहिं कप्पंतरेहिं मग्गंतरेहिं नयंतरेहिं भंगंतरेहिं पावयणंतरेहिं समणा निग्गंथा कंषा मोहणिज्जं कम्मं वेयंति ।" तथा सह निदानेन देवत्वादिप्रार्थनारूपेण वर्त्तन्त इति सनिदानाः । तथा कृष्णां सर्वनिकृष्टां लेश्यां जीवपरिणामरूपामवगाढाः प्राप्ताः इहास्मिन् [जगति] ये म्रियन्ते जीवास्तेषां दुर्लभा बोधिरित्यर्थः ।। किञ्च -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org