________________
खण्ड:-१ गा. ४२
६७
जिणसासणं पि पाविय संपाविय साधुसावगत्तेवि ।
कुगुरुकुवएसेण हओ अणंतखुत्तो दुहं पत्तो ।।१।।४१।। सोम0 अथ का अबोधिरिति द्वितीयप्रश्नस्योत्तरमाह - मिथ्यादर्शनं विपर्यस्तदर्शनं मिथ्यात्वं मिथ्याक्रियाद्यभिलाषरूपं, तत्र रताः, तथा सह निदानेन देवत्वादिप्रार्थनारूपेण वर्तन्त इति सनिदानाः तथा कृष्णां सर्वाधमां लेश्यां जीवपरिणामरूपामवगाढाः प्राप्ताः । इहास्मिन् जगति एवंविधा ये जीवा म्रियन्ते, तेषां दुर्लभा बोधिर्भवेत् ।।४१ ।।
गुण० [का] देवदुर्गतिः इति अस्य प्रश्नस्य निर्वचनमुक्तमथ का अबोही ? तस्य निर्वचनमाहविपर्यस्तदर्शनं मिथ्यात्वं तत्र रताः । तथा सह निदानेन देवत्वादिप्रार्थनारूपेण वर्त्तन्त इति सनिदानाः । तथा कृष्णां सर्वनिकृष्टां लेश्यां जीवपरिणामरूपामवगाढाः प्राप्ताः ।।४१ ।
सम्मइंसणरत्ता अनियाणा सुक्कलेसमोगाढा । इह जे मरंति जीवा तेसिं सुलहा भवे बोही ।।४२।। सम्यग्दर्शनरक्ता अनिदानाः शुक्कलेश्यामवगाढाः ।
इह ये म्रियन्ते जीवास्तेषां सुलभो भवेद्वोधिः ।।४२। भुव० का अबोहीत्यस्योत्तरमुक्तमथ तद्विपक्षभूतं प्रस्तावाद्वोधिसुलभत्वमाह - सम्यग्दर्शने रक्ता भावितान्तःकरणास्तद्वासनया सप्तानामपि धातूनां रञ्जनात् । अनिदाना निदानवर्जिताः । तथा शोधयत्यष्टप्रकारं कर्ममलमिति शुक्ला । शुचं वा क्लमयतीति शुक्ला । सा चासौ लेश्या च शुक्ललेश्या, तामवगाढाः प्राप्ताः । इह प्रवचने ये म्रियन्ते जीवास्तेषां सुलभबोधिरित्यर्थः ।।४२।।
सोम0 अथ प्रस्तावाद् बोधिदुर्लभत्वविपक्षभूतं बोधिसुलभत्वमप्याह - सम्यग्दर्शनेन रक्ता भावितान्तःकरणाः सम्यक्त्ववासितसप्तधातव इत्यर्थः । अनिदाना निदानवर्जिताः, तथा शोधयत्यष्टप्रकारं कर्ममलमिति शुक्ला शुचं क्लमयतीति वा, शुक्ला चासौ लेश्या च शुक्ललेश्या तामवगाढाः प्राप्ताः, एवंविधा इह प्रवचने ये जीवा म्रियन्ते तेषां सुलभो भवेद् बोधिः ।।४२।।
गुण का अबोहीत्यस्योत्तरमुक्तमथ तद्विपक्षभूतं बोधिसुलभत्वमाह - सम्ममित्यादि ।।४२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org