________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ४३
जे पुण गुरुपडिणीया बहुमोहा ससबला कुसीला य । असमाहिणा मरंति उ ते हंति अणंतसंसारी ।।४३।। ये पुनर्गुरुप्रत्यनीका बहुमोहाः सशबलाः कुशीलाश्च ।
असमाधिना नियन्ते ते भवन्त्यनन्तसंसारिणः ।।४३।। भुवः अथ केण अणंतं पारमिति प्रश्नस्य निर्वचनमाह - गृणात्यभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्याश्रित्य प्रत्यनीका गुरुप्रत्यनीका गुर्वाशातका गोशालकवत्। तथाहि -
जच्चाईहिं अवन्नं भासइ वट्टइ नया वि उववाए ।
अहिओ छिद्दप्पेही पगासवाई अणणुकूला खिसका ।। [पंच व० १६३९] इत्यर्थः।। तथा बहुमोहा त्ति त्रिंशन्मोहनीयस्थानवर्तिनः बहुमोहाः, तथा सह सबलैरेकविंशत्या शबलस्थानैर्वर्तन्त इति सशबलाः कुत्सितं शीलं समाचारं येषां ते कुशीलाः । चः समुच्चये । असमाधिना आर्त्तरौद्रतया ये म्रियन्ते तेऽनन्तसंसारिणो भवन्तीति । केण अणंतंपारमित्यस्य निर्वचनमुक्तम् । ननु किमिति तृतीयप्रश्नं विमुच्य चतुर्थस्य प्रथमं निर्णय उक्तः ? उच्यते'मरणविराहिए' इति गाथायामयमेव क्रमस्तस्यैव निर्वचनमभाणि । तर्हि प्रश्नसंग्रहगाथायां किमिति व्यतिक्रमग्रहणम् ? उच्यते-शिक्षाभ्यूह्य शक्तिवर्द्धनार्थं विचित्रा सूत्ररचनेति न्यायप्रदर्शनार्थं वा इति परमार्थः ।।४३।।
सोम० अथ केनानन्तं पारमिति चतुर्थस्य प्रश्नस्य निर्वचनमाह - ये पुनर्जीवा गृणाति अभिधत्ते तत्त्वमिति गुरुस्तं प्रति जात्याद्यवर्णवादभाषणादिना प्रत्यनीकाः प्रतिकूला: तथा बहुमोहास्त्रिंशन्मोहनीयस्थानवर्तिनः, सह शबलैरेकविंशत्या शबलस्थानैर्वर्तन्ते ये ते सशबलाः, कुत्सितं शीलमाचारो येषां ते कुशीलाः, चः समुच्चये । एवंविधा येऽसमाधिनाऽऽतरौद्रभावे वर्तमाना नियन्ते तेऽनन्तसंसारिणो भवन्तीति । ननु 'केणेव वुज्झई मरणं' ? इति तृतीयं प्रश्नं विमुच्य चतुर्थप्रश्नस्य प्रथमं निर्णयः कस्मादुक्तः ? उच्यते-विचित्रा सिद्धान्तसूत्ररचना भवतीति न्यायदर्शनार्थं शिष्याणाम् ।।४३।।।
गुण अथ केण अणंतं पारमिति प्रश्नस्य निर्वचनमाह - गृणाति तत्त्वमिति गुरुस्तं प्रतीत्याश्रित्य प्रत्यनीका गुर्वाशातनाः तथा बहु० त्रिंशन्मोहनीयस्थानवर्तिनः बहुमोहाः, सह शबलैरेकविंशत्या शबलस्थानैर्वर्तन्त इति सशबलाः । कुशीलाः । चः समुच्चये ।।४३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org