SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. ४४, ४५ जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेणं । असबल असंकिलट्ठा ते हंति परित्तसंसारी ।।४४।। जिनवचनेऽनुरक्ता गुरुवचनं ये कुर्वन्ति भावेन । अशबला असंक्लिष्टास्ते भवन्ति परीत्तसंसारिणः ।।४४ ।। भुव० अथानन्तसंसारिविपक्षभूताः परीत्तसंसारिणः तत्स्वरूपमित्याह - जिनवचनस्यानुरक्तास्तद्वासितमनसः गुरुवचनं धर्माचार्योपदेशं भावतो हितमिति कृत्वा ये कुर्वन्ति । अशबलाः शबलस्थानदूरवर्तिनः । असंक्लिष्टा विशुद्धाध्यवसायास्ते परीत्तसंसारिणः स्तोकसंसारिणो भवन्तीत्यर्थः ।।४४।। सोम० अथ अनन्तसंसारिविपक्षभूतत्वात् परीत्तसंसारिस्वरूपमाह - जिनवचने श्रीजिनेन्द्रवचने श्रीजिनप्रवचनेऽनुरक्तास्तद्वासितमनसो गुरुवचनं धर्माचार्योपदेशं भावतो हितमिति कृत्वा ये कुर्वन्ति, अशबलाः शबलस्थानदूरवर्तिनः, असंक्लिष्टा विशुद्धाध्यवसाया एवंविधा ये म्रियन्त इति गम्यं ते परीत्तसंसारिणः स्तोकसंसारिणो भवन्तीत्यर्थः ।।४४।। गुण जिनवचने अनुरक्तास्तद्वासितमनसो गुरुवचनं धर्माचार्योपदेशम् । अशबलाः शबलस्थानदूरवर्तिनः, असंक्लिष्टास्ते परीत्तसंसारिणः स्तोकसंसारिणो भवन्तीत्यर्थः ।।४४।। बालमरणाणि बहुसो बहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं न याणंति ।।४५।। बालमरणानि बहुशो बहुकानि च अकामानि मरणानि । नियन्ते ते वराका ये जिनवचनं न जानन्ति ।।४५।। भुव. अथ केणेव वुझई मरणमित्यस्य निर्वचनं सार्द्धगाथाद्वयेनाह - ये वराका जिनवचनं न जानन्ति ते बालमरणानि शस्त्रग्रहणादीनि बहुशोऽनेकशो मरिहंति मरिष्यन्ति । तथा बहूनि बहुकानि च अकामुकानि निरभिलाषाणि मरणानि केचिद्वराका महारोगादिदुःखपीडिता अनिच्छन्तोऽपि मरिष्यन्ति । जिनवचनबाह्याः सन्तः ।।४५।। सोम0 अथ केणेव वुज्झइ मरणं ? इति तृतीयप्रश्नस्य पूर्वमुक्तस्य निर्वचनं सार्धगाथाद्वयेनाह - ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy