________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ४६
ये वराका जिनवचनं न जानन्ति ते बालमरणानि शस्त्रग्रहण-विषभक्षणादीनि बहुशोऽनेकशो 'मरिहंति' मरिष्यन्तीति सम्बन्धस्तथा बहुकानि बहून्येवाकामुकानि निरभिलाषाणि मरणानि दर्शयति केचिद् वराका महारोगादिग्रस्ता मोहान्मर्तुमनिच्छन्तो मरिष्यन्ति जिनवचनबाह्याः सन्त इत्यर्थः ।।४५।।
गण ये वराका जिनवचनं न जानन्ति ते बालमरणानि शस्त्रग्रहणादीनि बहशो मरिष्यन्ति तथा बहूनि बहुकानि च अकामुकानि निरभिलाषानि मरणानि केचित् वराका महारोगादिदुःखपीडिता अनिच्छन्तोऽपि मरिष्यन्ति जिनवचनबाह्याः सन्तः ।।४५।।
[गा. ४६-४७ बालमरणम्] सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अणयारभंडसेवी जंमण-मरणाणुबंधीणि ॥४६।। शस्त्रग्रहणं विषभक्षणं च ज्वलनं च जलप्रवेशश्च ।
अनाचारभाण्डसेवी जन्ममरणानुबन्धीनि ।।४६।। भुव० अथ बालमरणान्येव व्यक्तीक्रियन्ते- तत्र शस्त्रग्रहणं तीर्थादौ मस्तके क्रकचदापनं शिरःशारणादि विसभक्खणंचेति विषभक्षणं तालुपुटादि वैराग्यात्, ज्वलनप्रवेशः काष्ठभक्षणं पञ्चाग्नितपश्च जलप्रवेशश्च तीर्थे पयसि निमज्जनं कण्ठस्नानं वा माघमासे । चशब्दादन्यदप्येवंविधमुद्बन्धनादि बालमरणं ज्ञातव्यम् । एतानि बालमरणानि के मरिष्यन्तीत्याह - अणयारभंडसेवित्ति - आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणमाचारभाण्डोपकरणं, न आचारभाण्डोपकरणमनाचारभाण्डोपकरणम् । तत्सेवितुं शीलं येषां ते अनाचारभाण्डसेविनस्ते च परिव्राजकादयो मिथ्यादृष्टयः स्वयूथ्या वा ये हासमोहादिभिस्तत्सेवन्ति । तानि च परिव्राजाम् ।
पाउय १ तिदंड २ कुंडिय ३ कंचणि ४ केसरिय ५ छत्त ६ छन्नाल ७ मिसिय ८ करोडि ९ पवित्ती १० वत्थं ११ कुस १२ पाणह १३ गणित्ती १४ ।।१।। - कुण्डिका - कमण्डलु, कंचणी - रुद्राक्षमाला, केसरी - प्रमार्जनी, छन्नालं - त्रिकाष्टिका, पुस्तकोपकरणम्, व्रतिनामासनं, मृसी करोटिका नैवेद्यादौ कनकभाजनविशेषः, वस्त्राणि-धातुरक्तसाटिका, अंकुशो - दण्डाग्रतो लोहमयो, गणत्रिका -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org