SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ खण्डः-१ गा. ४७ कलाचिकाभरणविशेषः । पवित्री - अङ्गुल्याभरणविशेषः । तापसानां कत्छोटकपुटिकाताम्रभाजनादि, ब्राह्मणानां यज्ञोपवीतादि । एवमन्येषामपि । ते चैवमनाचारभाण्डसेविन: सन्तो बालमरणानि मरिष्यन्ति । कथं जन्मानि च मरणानि तान्यनुबध्नन्तीत्येवंशीलानि जन्ममरणानुबन्धीनि बहूनि मरिष्यन्तीत्यर्थः ।।४६।। सोम० बालमरणानि दर्शयति - शस्त्रग्रहणं तीर्थादौ मस्तके क्रकचदापनं - शिरःशारणादि, विषभक्षणं तालुपुटादि, दुःखगर्भवैराग्यत्वात् ज्वलनमग्नौ काष्ठभक्षणपञ्चाग्नितपःकरणादिरूपम, जलप्रवेशश्च तीर्थजले निमज्जनं स्नानं वा माघमासादौ चशब्दादन्यदप्येवंविधमुद्बन्धनादि बालमरणं ज्ञातव्यम् । एतानि बालमरणानि के कुर्वन्तीत्याह - अणायार० आचारः शास्त्रविहितो व्यापारस्तेन भाण्डमुपकरणम् आचारभाण्डम्, न आचारभाण्डम् अनाचारभाण्डम्, स्वबुद्धिकल्पितनानाविधवेषादि-रूपम्, तत् सेवितुं शीलं येषां तेऽनाचारभाण्डसेविनस्ते च त्रिदण्डकुण्डकादिधराश्चक्रपरिव्राजकादयो मिथ्यादृष्टयो हास-मोहादिना संयतवेशधारिणोऽप्यनाचारभाण्डसेविनः, ते चैवंविधास्सन्तो बालमरणानि मरिष्यन्ति बहूनि । कथम्भूतानि ? जन्मानि च मरणानि च परम्पराभावीन्यनेकानि तान्यनुबध्नन्ति इत्येवंशीलानि जन्ममरणानुबन्धीनि इत्यर्थः ।।४६।। गुण० तीर्थादौ मस्तके कक्रचदापन, विस० तालुपुटादि[भक्षणं], वैराग्यात् ज्वलनप्रवेशः, पञ्चाग्नितपश्च जलप्रवेशः पयसि निमज्जनं माघमासे । चशब्दादन्यदपि उद्वन्धनादि बालमरणं ज्ञातव्यम् । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणमित्याचारभाण्डं, न आचारभाण्डमित्यनाचारभाण्डं तत्सवितुं शीलं येषां तेऽनाचारभाण्डसेविन:, ते च परिव्राजकादयो मिथ्यादृष्टयः जन्ममरणानि तान्यनुबन्धीनि बहूनि मरिष्यन्तीत्यर्थः ।।४६।। उड्डमहे तिरियम्मि वि मयाणि जीवेण बालमरणाणि । दंसण-नाणसहगओ पंडियमरणं अणुमरिस्सं ॥४७।। ऊर्ध्वमधस्तिरश्चयपि मृतानि जीवेन बालमरणानि । दर्शनज्ञानसहगतः पण्डितमरणमनुमरिष्ये ।।४७।। भुव० ऊर्ध्वं भूतलान्नवयोजनशतादुपरिसमग्रोर्ध्वलोके । अधः अघोग्रामादौ सर्वपृथिवीषु तिर्यग्लोकेऽपि चाष्टादशयोजनशतमाने मृतान्यनुभूतानि जीवेन बालमरणानि पूर्वोक्तानि यदिवानुभूतानि तत् किंविधेयमित्याह - स चैवं क्षपको विज्ञातबालमरणविपाकश्चिन्तयामास । दर्शनज्ञानसमन्वितः सन्नहं पण्डितमरणं विवेकिमरणमनुमरिष्ये ।।४७।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy