SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७२ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ४८ सोम० तानि क मरिष्यन्तीत्याह - ऊर्ध्वं भूतलान्नवयोजनशतोपरिसमग्रोर्ध्वलोके तथाऽधोलौकिकग्रामादौ भवनपतिषु सप्तपृथ्वीषु च तिर्यग्लोके चाष्टादशयोजनशतमाने मृतान्यनुभूतानि जीवेन बालमरणान्यनिच्छामरणानि शस्त्रादिमरणानि वा पूर्वोक्तानि यदिवाऽनुभूतानि ततः किं विधेयमित्याह - दंसणगाथा/० स क्षपक एवं विज्ञातबालमरणविपाकश्चिन्तयति - दर्शनज्ञानाभ्यां सहगतः समन्वितः सन्नहं पण्डितमरणं विवेकिमरणमनुमरिष्येऽनुरथशब्दार्थे ।।४७।। गुण ऊर्दू ऊर्ध्वलोकः, अधोलोकः अधोग्रामादौ, तिर्यग्लोकेऽपि चाष्टादशयोजनशतमाने मृतान्यनुभूतानि । दर्शनज्ञानसमन्वितः सननुमरिष्ये [पण्डितमरणम् ।।४७ ।। [गा. ४८ तः ७१ पण्डितमरणे भावनाः तदाराधनविधिश्च] उव्वेयणयं जाई मरणं नरएसु वेयणाओ य । एयाणि संभरंतो पंडियमरणं मरसु इण्हिं ।।४८।। उद्वेगजनकं जातिमरणं नरकेष वेदनाश्च । एतानि स्मरन् पण्डितमरणं म्रियस्वेदानीम् ।।४८।। भुव० हे वत्स ! विराधितव्रतस्य उद्वेगजनकं भयानकमुद्वेगकारि । किं ? जननं जातिः, म्रियते मरणं, तत्संसारे परिभ्रमतस्ते भविष्यतीत्यध्याहारः । तथा पापकारिनरान् कायन्त्याह्वायन्तीति नरकास्तेषु। वेदनाश्च छेदन-भेदन-क्रकच-करपत्रविदारण-शाल्मलीवृक्षशिखरारोपण-तप्तायःपुत्तलिकासमालिङ्गन-वैतरणीनदीप्लावन-वज्रवालुका-पुलिनभारवहन-तप्तायस्त्रपुपानादिका दशप्रकारा वा दुरधिसह्या भविष्यन्तीत्यत एतानि संस्मरन् चिन्तयन् पण्डितमरणमभ्युद्यतमरणं मर इदानीमित्यर्थः ।।४८।। सोम० अथ गुरुः क्षपकस्य दुर्गतिभयं दर्शयन्नुपदेशमाह - हे वत्स ! विराधितव्रतस्योद्वेगजनकं भयानकं उद्वेगकारि, किम् ? जातिर्जन्म, म्रियते इति मरणम्, जातिश्च मरणं च जातिमरणम्, तत् संसारे परिभ्रमतस्ते भविष्यतीत्यध्याहारः, क्वचिदुव्वेयणाइ' इति पाठस्तत्रापि प्राकृतत्वाद् वचनव्यत्ययं कृत्वा जन्म-मरणविशेषणं कार्यम् । तथा पापकारिनरान् कायन्ति आह्वायन्तीति नरकास्तेषु वेदनाश्च छेदन-भेदन-करपत्रविदारण-शाल्मलीवृक्षशिखरारोपणतप्तायःपुत्रिकासमालि ङ्गनादिरूपाः क्षेत्रजादिभेदा वा दुरधिसह्या विराद्धव्रतस्यैव ते भविष्यन्तीत्यत एतानि संस्मरन् चिन्तयन् पण्डितमरणमभ्युद्यतमरणं म्रियस्वेदानीमित्यर्थः ।।४८ ।। गुण उद्वेगजनकं भयानकमुद्वेगकारि किं जातिर्मरणं तत्संसारे भ्रमतस्ते भविष्यतीत्यध्याहारः । नरकेषु वेदनाः छेदनाद्याः । एतानि संस्मरन् चिन्तयन् ।।४८ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy