________________
खण्ड:-१ गा. ४९
७३
जइ उप्पज्जइ दुक्खं तो दट्ठव्वो सहावओ नवरं । किं किं मे [मए] न पत्तं संसारं संसरंतेणं ? ।।४९।। यदि उत्पद्यते दुःखं तर्हि दृष्टव्यः स्वभावः नवरम् ।
किं किं मया [मदे] न प्राप्तं संसारं संसरता ।।४९।। भुव० इति गुरुणा श्रावितव्रतविराधनाविपाकः क्षपकश्चिन्तयन्नाह - यदि उत्पद्यते जायते दुःखं कष्टम् । तो ततो द्रष्टव्यो ज्ञेयः स्वभावतस्तत्प्रादुर्भावः । न कोऽप्यात्मव्यतिरिक्तोऽन्यो हेतुस्तदुत्पत्तौ समस्तीत्यात्मैव तद्धेतुरिति चिन्तयति । अथवा नवरं पुन: कियद् दुःखमेतत्युरापि काः का दुःखपरम्परा मे मया मएत्ति - मदे जाति-कुल-बल-रूप-तप-ऐश्वर्यश्रुतलाभरूपे । आसक्तचेतसा संसारे संसरता न प्राप्ता नानुभूताः । परं ता अकामनिर्जरया सोढा अल्पस्तत्सहने फलविशेषः । इदानीं त्वनन्तगुणनिर्जरालाभहेतुत्वात्सम्यक् सोढव्या इत्यर्थः । अथवा यदि उत्पद्यते दुःखं तत्किं कर्त्तव्यमित्याह - तो तदासौ दृष्टव्यः सखा मित्रं, रोगादिः पुरुषादिर्वा। कथंभूतः सखा ? आपदं ददातीति आपदः ससखा दृष्टव्यः । नवरमयं विशेषः । तथा का आपत्की मे इति मां कर्मतापन्नं न प्राप्ता इति का मे पदस्यार्थः । तथा का आपत्कर्मतापन्ना मया क; न प्राप्ता न लब्धा । किं विशिष्टेन ? संसारं संसरता परिभ्रमता । संसारे संसारं वा चातुर्गतिकमिति मयेति पदस्यार्थः ।।४९।।
सोम० अथ क्षपकः श्रुतगुरुपदेशः कदाचिदुत्पन्नवेदनादुःखोऽप्येवं चिन्तयतीत्याह - यदि उत्पद्यते दुःखं जायते कष्टं ततो द्रष्टव्यो ज्ञेयः स्वभावतस्तत्प्रादुर्भावो न कोऽप्यात्मव्यतिरिक्तोऽन्यो हेतुस्तदुत्पतौ समस्तीत्यात्मैव तद् हेतुरिति चिन्तयति अथवा नवरं पुनरर्थे कियद् दुःखमेतत्, पुरा किं किं दुःखं दुःखपरम्परा मया न प्राप्ता संसारे संसरता परिभ्रमता सता, काः का दुःखपरम्परा मया नानुभूताः, परं ता अकामनिर्जरया सोढा अतोऽल्पस्तत्सहने फलविशेषः, इदानीं त्वनन्तगुणनिर्जरालाभहेतुत्वात् सम्यक्सोढव्या इति भावः । का मे मए न पत्तेति पाठान्तरम्तत्रापि का दुःखपरम्परा मदे जात्यादौ आसक्तचेतसा मया न प्राप्ताः । किंविशिष्टेन ? मदे जातिकुल-बल-रूप-श्रुत-तपो-लाभैश्चर्यरूपे आसक्तचेतसेति गम्यम्, अथवा यदि उत्पद्यते दुःखं ततः किं कर्तव्यमित्याह-तो तदा आपदं ददातीति आपद्दो रोगादिः पुरुषादिर्वा, असौ सखा मित्रमिति द्रष्टव्यः । नवरं केवलं का इति आपत्की मे इति मां कर्मतापन्नं न प्राप्तेति सम्बन्धः, एवं का मे पदस्याओं गतः । तथा का आपत्कर्मतापन्ना मयेति मया का न प्राप्ता लब्धा संसारे संसारं परिभ्रमता इति मयेति पदस्यार्थः । का: का आपदो मम स्वयं नागताः । मया वा प्रसह्य का नाऽऽनीता इत्यर्थः ।।४९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org