________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ५०
गुण अथ गुरुणा श्रावितव्रतविराधने क्षपकचिन्ता - यदि उत्पद्यते जायते दुःखं कष्टं ततो द्रष्टव्यो ज्ञेयः स्वभावतस्तत् प्रादुर्भावः न कोऽप्यात्मव्यतिरिक्तोऽन्यो हेतुः, आत्मैव हेतुरिति विचिन्तयति । अथवा नवरं पुनः कियदुःखमेतत् । पुरापि का दुःखपरंपरा मे मया । मए त्ति मदे जात्यादौ आसक्तचेतसा संसारे संसरता भ्रमता सता न प्राप्ता नानुभूताः ? परं ता अकामनिर्जरया सोढा अल्पस्तत्सहने फलविशेषः । इदानीं त्वनन्तगुणनिर्जरालाभहेतुत्वात् सम्यक् सोढव्या इत्यर्थः। अथवा यदि उत्पद्यते दुःखं ततः किं कर्तव्यमित्याह- तो तदा द्रष्टव्योऽसौ सखा मित्रं रोगादिः पुरुषादिर्वा । कथंभूतः सखा ? आपदं ददातीति आपद्दः । स सखा द्रष्टव्यः नवरमयं विशेषः । का च आपत्की मे इति मां कर्मतापन्नं न प्राप्ता । अथ का आपत् कर्मतापन्ना मया क; न प्राप्ताऽनुपलब्धा, किं विशिष्टेन ? संसरता परिभ्रमता संसारे ।।४९।।
संसारचक्कवालम्मि सव्वे वि य पुग्गला मए बहुसो । आहारिया य परिणामिया य नाहं गओ तत्तिं ।।५०।। संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः ।
आहारिताश्च परिणामिताश्च न चाहं गतस्तृप्तिम् ।।५।। भुव न केवलं मया संसरता वेदना एव सोढाः । अपि त्वाहारा अपि सुखहेतुका: सर्वेप्याहारिताः। परं तथाऽप्यतृप्त एवायं ममात्मेति भावयन्नाह - संसारचक्रवाले भवचक्रे भ्रमता मया सर्वेऽपि पुद्गलाः समग्रोऽपि पुद्गलास्तिकाय: । बहुशोऽनेकश: । आहारिता आहारे गृहिताः, परिणामिताश्च तद्रसवेदनेन। अथवा परिणामिताश्च तनुमनोवाक्प्राणत्वेन । अनन्तान् पुद्गलपरावर्तान् परिभ्रमता मया । तथापि तैः सर्वैराहारैरपि नाऽहं तृप्तिं गतो न संतोषमापन्न इत्यर्थः ।।५।।
सोम0 अथ न केवलं मया वेदना एव सोढाः, किन्त्वाहारा अपि सुखहेतुकाः सर्वेप्याहारिताः, तथापि अतृप्त एवायं ममात्मेति भावयति - चक्रवालशब्दः समूहार्थे संसारचक्रवाले भवसमूहे भ्रमता मया सर्वेऽपि पुद्गलाः सर्वोऽपि पुद्गलास्तिकायो बहुशोऽनेकश आहारिता आहारत्वेन गृहीताः परिणामिताश्च तद्रसवेदनेन तनुमनोवाक्प्राणत्वेन वाऽनन्तपुद्गलपरावर्तान् भ्रमता मयेति योगस्तथापि तैर्नाहं तृप्तिं गतो न सन्तोषमापन्नः ।।५०।।
गुण भवचक्रे भ्रमता मया सर्वेऽपि पुद्गलाः समग्रोऽपि पुद्गलास्तिकायो बहुशो अनेकश आहारत्वेन गृहीताः परिणामिताश्च तद् रसवेदनेन नाहं तृप्तिं गतो न सन्तोषमापन्न इत्यर्थः ।।५०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org