________________
खण्डः- १ गा. ५१, ५२
-कट्ठेहि व अग्गी लवणजलो वा नईसहस्सेहिं ।
- भोगेहिं ।।५१।।
तण
न इमो जीवो सक्को तिप्पेउं काम
तृणकाष्ठैरिवाग्नि लवणजल इव नदीसहस्त्रैः ।
नायं जीवः शक्यस्तर्पयितुं काम- १
- भोगैः ।। ५१ ।।
भुव० केन दृष्टान्तेन न तृप्त इत्याह तृणकाष्ठैरिवाग्निः, लवणं क्षारं जलं यत्र स लवणजलो लवणसमुद्रः । वा इवार्थे । नदीसहस्रैः सहस्रशब्दो बहुत्वसंख्यावचनः । यथा समुद्रश्चतुर्दशभिर्नदीनां लक्षैः षट्पञ्चाशत्सहस्त्रैर्नवत्यधिकैर्न तृप्तो न पूर्ण: । एवममुना दृष्टान्तेन । न इमोत्ति नायं जीव: शक्यस्तर्पयितुं तृप्तीकर्तुं कामभोगैः । कामा: शब्दरूपगन्धाः । भोगा रसस्पर्शास्तैरित्यर्थः ।। ५१ ।।
-
सोम० केन द्रष्टान्तेन न तृप्त इत्याह- तृणकाष्ठैरिवाग्निः लवणं क्षारं जलं यस्य स लवणजलो लवणसमुद्र इत्यर्थः । वा इवार्थे । नदीसहस्त्रैः सहस्रशब्दो बहुत्वसूचकः, यथा नदीनां चतुर्दशलक्षैः षट्पञ्चाशत्सहस्रैर्नवत्यधिकैः समुद्रो न तृप्तो न पूर्णस्तथा नायं जीवस्तर्पयितुं शक्यः तृप्तीकर्तुं कामभोगैः कामाः शब्दरूपगन्धाः, भोगा रसस्पर्शास्तैरित्यर्थः ।। ५१ ।।
-
गुण० केन द्रष्टान्तेन स्पष्टाः । नवरं न 'इमो' न चायं जीवः शक्यस्तर्पयितुं तृप्तीकर्तुं कामाः शब्दरूपगन्धाः । भोगा रसस्पर्शास्तैरित्यर्थः ।। ५१ ।।
आहारनिमित्तेणं मच्छा गच्छंति सत्तमं पुढविं ।
सच्चित्तो आहारो न खमो [ खमइ] मणसा वि पत्थेउ ।। ५२ ।।
आहारनिमित्तेन मत्स्या गच्छन्ति सप्तमीं पृथिवीम् ।
सचित्त आहारो न क्षमो [ क्षमते] मनसाऽपि प्रार्थयितुम् ।। ५२ ।।
Jain Education International 2010_02
७५
भुव० अथ तेषु गृद्धस्य दोषान् दर्शयन्नाह आहारनिमित्तेनाहारेण हेतुना मत्स्यास्तन्दुलमत्स्या गच्छन्ति यान्ति सप्तमीं पृथिवीं तमस्तमाभिधाम् । रसस्य दोषं भणता शेषाणामपि शब्द-रूप- गन्ध- - स्पर्शानां दोषो दर्शित एव । तद्धेतुत्वाच्छेषविषयाणाम् । तेषामपि दोष उक्तैर्दर्श्यते । तथाहि -
सो इंदिय दुतणस्स अहइत्तिउ इमो दोसो । दीविखमसहंतो वहबंधतित्तिरो पत्तो । । १ । ।
For Private & Personal Use Only
www.jainelibrary.org