SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १२ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ७ बालपण्डितमरणम् । ज्ञातैः स्वजनैर्वा न मुक्तो नानुमतः पश्चिमकालकर्त्तव्यां संलेखनां तपःप्रभृतिकामकृत्वैव यन्मरणं करोति तद् बालपण्डितमरणमुक्तमित्यग्रेतनगाथायां सम्बन्धः ।।६।। गुण. आशु शीघ्रं करणं कारः । अचिन्तितोपस्थितोपक्रमणे अथवा क्रमेणैव मरणकाल: समागतः परं संलेखना नाकारि । कस्मादिति ? न छिन्ना न त्रुटिता या जीविताशा तया । ज्ञातैः स्वजनैर्वा न मुक्तो न मुत्कलित अतः पश्चिमकालकर्तव्यां संलेखनां तपसा शरीरशोषणरूपामकृत्वाऽविधाय यन्मरणं करोति तद् बालपण्डितमरणमुक्तमित्यग्रेतनगाथायां सम्बन्ध इति गाथार्थः ।।६।। आलोइय निस्सल्लो स घरे चेवाऽऽरुहित्तु संथारं । जइ मरइ देसविरओ तं वुत्तं बालपंडिययं ।।७।। आलोच्य निःशल्यः स्वगृह एवारुह्य संस्तारकम् । यदि म्रियते देशविरतस्तदुक्तं बालपण्डितम् ।।७।। . भुव स च गृहे कथं म्रियत इत्याह - आलोच्य गीतार्थगुरुसमीपे आलोचनां दत्त्वा तद्दत्तं प्रायश्चित्तमङ्गीकृत्य निस्सल्लोत्ति - शल्यं द्रव्यभावेभेदाद् द्विधा - द्रव्यशल्यं कण्टकतोमरादि, भावशल्यं मूलोत्तरगुणविराधनादि । तदालोचनादानेन निष्काश्य निर्गतं शल्यमस्मादिति निःशल्यः । उक्तञ्च - न हु सुज्झइ ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरिय सव्वसल्लो गच्छइ सिद्धिं धुयकिलेसो ।।१।। स चैवं कृत्वा सघरे चेवारुहेत्तुत्ति - निजसदने एवारुह्याङ्गीकृत्य संथारं ति - संस्तारकमनशनप्रतिपत्तिकाले दर्भप्रस्तरणरूपम् । कृतसंस्तारकविधिना हि यत्क्रियते तदनशनमपि संस्तारकमुच्यते । तस्मिन् संस्तारके कृतानशन: समाधिमान् । जइ मरइ देसविरओ त्ति यदि म्रियते देशविरतस्तदुक्तं बालपण्डितमरणमित्यक्षरार्थः ।।७।। सोम. स च गृहे कथं म्रियते इत्याह - आलोच्य गीतार्थसुगुरुसमीपे आलोचनां दत्त्वा तद्दत्तप्रायश्चित्तमङ्गीकृत्य [निर्गतं शल्यं यस्मात् स, शल्यं द्रव्यभावभेदाद् द्विधा द्रव्यशल्यं कण्टकादि, मूलगुणोत्तरगुणविराधनारूपं भावशल्यं तेन रहित इत्यर्थः । एवंविधः सन्निजगृहे एवारुह्याङ्गीकृत्य संस्तारकमनशनप्रतिपत्तिकालाहँ दर्भप्रस्तरणरूपं संस्तारकविधिसाध्यमनशन Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy