________________
खण्ड:-१ गा. ८
१३
मप्युपचारात् संस्तारकमुच्यते । कृतानशनः सन् यदि म्रियते देशविरतः समाधिमान् तदुक्तं बालपण्डितमरणम् ।।७।।
गुण. स च गृहे कथं म्रियत इत्याह-आलोच्य गुरुसमीपे तद्दतं प्रायश्चितमङ्गीकृत्य, शल्यं द्रव्यभावभेदाद्विधा - द्रव्यशल्यं कण्टकादि, भावशल्यं मूलोत्तरगुणविराधनादि । तदालोचनादानेन निःशल्यः । स चैवं कृत्वा निजसदने एवारुह्याङ्गीकृत्य संस्तारकमनशनप्रतिपत्तिकाले दर्भसंस्तरणरूपम् । कृतसंस्तारकविधिना हि यत् क्रियते तदनशनमपि संस्तारकमुच्यते । यदि म्रियते देशविरतस्तदुक्तं बालपण्डितमित्यर्थः ।।७।।
जो "भत्तपरित्राए" उवक्कमो वित्थरेण निद्दिट्ठो । सो चेव बालपंडियमरणे नेओ जहाजोग्गं ।।८।। यो भक्तपरिज्ञायामुपक्रमो विस्तरेण निर्दिष्टः ।
स एव बालपण्डितमरणे ज्ञेयो यथायोग्यम् ।।८।। भुव० तर्हि तत्केन विधिना विधेयमित्याह - यो भक्तपरिज्ञाध्ययने श्रावकस्याऽनशनप्रतिपत्तिं कुर्वत उपक्रमः पीठबन्धो विस्तरेण "अह हुज्ज देसविरओ" इत्यादि । अनियाणो इत्यादि । नियदव्वमित्यादि गाथात्रयोक्तविधिः । गुरुपूजा - सङ्घपूजा-साधर्मिकवात्सल्यदीनादिदाननिजद्रव्यतोऽपूर्वजिनचैत्यकारापणबिम्बनिर्मापणा-तत्प्रतिष्ठापना-सिद्धान्तपुस्तकलेखना - यथौचित्येन [त्य] चतुर्विधसङ्घसन्माननप्रवाजनककारापणतीर्थयात्राविधापनजिनशासनप्रभावनाहेतुप्रभूतद्रव्यस्तवकरणस्वजनमुक्तलापनचैत्यवन्दनगुरूपज्ञापनाद्वादशावर्त्तवन्दनदानालोचनाग्रहणसम्यक्त्वाणुव्रतोच्चाणपुरस्सरो
यस्तत्र निरवशेषो विधिनिष्टो भणित: । स एवात्राप्यध्ययने बालपण्डितमरणे वर्णयितव्ये यथायोग्यं यथोचितं ज्ञेय इत्यक्षरार्थः। स चात्र कोऽपि दर्शाते तथाहि -
अनियाणो दाणमणो हरिसवसट्टकंटयकरालो । पूएय गुरुसंघसाहम्मियमाइ भत्तीए ।।१।। नियदव्वमउव्वजिणंदभवणजिणबिंबवरपइट्ठासु । वियरय पसत्थपुत्थयसु तित्थतित्थयरजत्तासु ।।२।। अट्टाहियमहिमाओ कारिय जिणचेइएसु सव्वेसु । निवइमहब्बलनाया चारगसुद्धिं च कारेइ ।।३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org