SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा.६ द्वितीयं गुणव्रतमिति । समाय एव सामायिकं द्वितीयं शिक्षाव्रतं मूलक्रमेण तु प्रथमम् । अतिथेः संविभागोऽतिथिसंविभागः । चः समुच्चये । पोषं पुष्टिं धर्मस्य दधातीति पौषधम् । उक्तं च - जं पोसइ सुहधम्मं धरेइ जीवं च कुगइ निवडतं । तं पोसहं ति भन्नइ एयं दुक्खखयं गिहिणो ।।१।। तस्य विधिः पौषधविधिः । इह तु क्रमेण चतुर्थं शिक्षाव्रतं मूलक्रमेण तु तृतीयम् । एतानि चत्वारि शिक्षाव्रतान्युक्तानि ।।५।। आसुक्कारे मरणे अच्छिन्नाए य जीवियासाए । नाएहि वा अमुक्को पच्छिमसंलेहणमकिच्चा ।।६।। आशुकारे मरणे अच्छिन्नायां च जीविताशायाम् । ज्ञातिभिर्वाऽमुक्तः पश्चिमसंलेखनामकृत्वा ।।६।। भुव० अथ कदा पुनरसौ श्रावको बालपण्डितमरणेन म्रियत इत्याह - आशु शीघ्रं करणं कार आशुकारो मरणावसरस्तेन मरणं तस्मिन् मरणेऽचिन्तितोपस्थितोपक्रमणे, फलपाकरज्जुभसमगउल्लपडपईवमग्गनाएण । चिरकालनिबद्धस्स वि आउस्स उवक्कमो खिप्पं ॥१॥ एतैर्दृष्टान्तैर्झटिति प्रत्यासन्नीभूते मरणकाले तत्र बालपण्डितमरणं कुर्यात् । अच्छिन्नाए जीवियासाएत्ति । अथवा क्रमेणैव मरणकाल: समागतः । परं संलेखना नाकारि । कस्मादित्याह - अच्छिन्नाएत्ति न छिन्ना.त्रुटिता या जीविताशा तया हेतुभूतया संलेखना संस्तारकदीक्षा च न व्यधायि। नाएहिं वा अमुक्कोत्ति - ज्ञातैर्वा स्वजनैर्न मुक्तो न मुत्कलितः । पच्छिमसंलेहणमकिच्चत्ति - अतः पश्चिमकालकर्त्तव्यां संलेखनां तपसा शरीरशोषणरूपामकृत्वैवाविधाय यन्मरणं करोति तद्वालपण्डितमरणमुक्तमित्यग्रेतनगाथायां सम्बन्ध इति गाथार्थः ।।६।। सोम० अथ कदा पुनरसौ श्रावको बालपण्डितमरणेन म्रियत इत्याह- आशु शीघ्रं करणं कार आशुकार औत्सुक्यमरणावसरस्तेन मरणं तस्मिन् मरणेऽचिन्तितोपस्थित इत्यर्थः । एवं झटिति प्रत्यासन्नीभूते मरणे बालपण्डितमरणं कुर्यादथवा अच्छिनाए इति न छिन्ना त्रुटिता अच्छिन्ना, का ? या जीविताशा तस्यां तया वा क्रमेणैव मरणकाले समागतेऽपि संलेखनाद्यकृत्वैव यन्मियते तद् Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy