SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ५ संविभजनं संविभागः । अतिथे: संविभागोऽतिथिसंविभागः । चः समुच्चये । तत्तृतीयं शिक्षाव्रतमिह ग्रन्थक्रमेण, मूलक्रमेण तु चतुर्थम् । उक्तञ्च - अतिहीणं जं दाणं च वसहीआहारवत्थपत्ताणं । तं अतिहिसंविभागं चउत्थं सिक्खावयं जाण ।।१।। पोसहविही य सव्वोत्ति - पोषं पुष्टिं धर्मस्य दधातीति पौषधम् । उक्तञ्च - जो पोसइ सुहधम्मं धरेइ जीवं च कुगइनिवडतं । तं पोसहं ति भनइ एयं दुक्खखयं गिहिणो ।।१।। तस्य विधि: पौषधविधिः । च: समुच्चये । पौषधविधिश्चतुर्थः सर्वः चतुर्विधाहारशरीरसत्कारब्रह्मचर्यव्यापारलक्षणः । इह तु क्रमेण चतुर्थं शिक्षाव्रतं मूलक्रमेण तु तृतीयम् । एतानि चत्वारि शिक्षाव्रतान्युक्तानि । न तु यावज्जीवमङ्गीकरणादोगोपभोगव्रतस्य गुणवतत्वेन प्रसिद्धत्वात्कथं शिक्षाव्रतत्वमुच्यते ? प्रतिदिनं प्रतिरात्रं प्रतिप्रहरं प्रतिमुहूर्तं पुनः पुन: संक्षेपकरणात् शिक्षिकेणेव पुन: पुनरभ्यसनाच्च शिक्षाव्रतत्वमपि ।।५।। सोम० अथ शिक्षाव्रतान्याह - १ - एकवारं भुज्यन्ते इति भोगा आहार-पुष्पादयः, उपलक्षणत्वात् परिभुज्यन्ते इति परिभोगाः पुनपुनर्भोग्या गृहाङ्गनादिकास्तेषां परिसङ्ख्यानं प्रमाणकरणं यत् तत्प्रथमं शिक्षाव्रतम् । अस्यापि यावज्जीवाङ्गीकाराद् गुणव्रतत्वेन प्रसिद्धस्यापि प्रतिदिनं प्रतिरात्रं प्रतिप्रहरादि च पुनः पुनः संक्षेपकरणत्वात् शिक्षिकेणेव पुनः पुनरभ्यसनाच्च शिक्षाव्रतत्वमप्यत्र विवक्षितमित्यदोषः । २-तथा समस्य रागद्वेषरहितस्य आयो लाभः समायः, समाय एव सामायिकम्, विभक्तिलोपः प्राकृतत्वात् तद् द्वितीयं शिक्षाव्रतम् । ३-तथा न सन्ति तिथयः पर्वाणि सदा धर्मपरत्वाद् यस्यासावतिथिस्तस्य संविभागोऽतिथिसंविभाग: स तृतीयं शिक्षाव्रतम । ४-तथा पोषं पुष्टिं धर्मस्य दधातीति पौषधस्तस्य विधिः । चः समुच्चये । सर्वआहार-शरीरसत्कार-ब्रह्मचर्यव्यापारलक्षण: स चतुर्थं शिक्षाव्रतम् । एतानि चत्वारि शिक्षाव्रतानि ।।५।। गुण. सकृदेकवारं भुज्यन्त इति भोगा आहारपुष्पादयः । तथा उपलक्षणत्वात् यत् परिभुज्यन्त इति परिभोगाः गृहाङ्गनादिकाः । परिसंख्यानं प्रमाणकरणमित्यर्थः । तत्प्रथमं शिक्षाव्रतं मूलक्रमेण Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy