________________
खण्डः -१ गा. ५
अनर्थं निष्प्रयोजनं दण्ड्यन्ते निपात्यन्ते जीवा एभिरित्यनर्थदण्डास्तेभ्यो यद्विरमणं द्वितीयं गुणव्रतं मूलक्रमेण तृतीयम् । दिशामवकाशः प्रतिदिनमानं तत्र भवं देशावकाशिकं तदपि च विरमणरूपं तत्तृतीयं गुणव्रतं, मूलक्रमेण द्वितीयं शिक्षाव्रतम् । आह - अस्य शिक्षाव्रतत्वेन प्रसिद्धत्वात् कथं गुणव्रत[त्व]मुच्यते - अन्ने भणंति - “सव्ववएसु जे पमाणा ठविआ ते पुण दिवसओ ओसरेइ" - आवश्यकचूर्णौ । “सव्ववयाणं करिज्ज संखेवं" तन्मतमाश्रित्य सर्वव्रतगुणकारकत्वाद्देशावकाशिकस्यापि गुणव्रतत्वमित्यदोषः ।।४।।
भोगाणं परिसंखा सामाइय अतिहिसंविभागो य । पोसहविही य सव्वो चउरो सिक्खाओ वुत्ताओ ।।५।। भोगानां परिसङ्ख्या सामायिकमतिथिसंविभागश्च ।
पौषधविधिस्तु सर्वः चतस्रः शिक्षा उक्ताः ।।५।। भुव० अथ शिक्षाव्रतानि विशेषयन्नाह - सकृदेकवारं भुज्यन्त इति भोगा आहारपुष्पादयः । तथा उपलक्षणत्वात्परिभुज्यन्त इति परिभोगाः गृहाङ्गनादिकाः । उक्तञ्च -
जो भुज्जइ इगवारं सो भोगो असणकुंकुमाईओ ।
परिभुंजइ जो पुण पुण परिभोगो गिहंगणाईओ ।।१।। परीत्युपसर्गः परिसंख्यानं परिसंख्याप्रमाणकरणमित्यर्थः । तत्प्रथमं शिक्षाव्रतं मूलक्रमेण द्वितीयं गुणव्रतमिति । उक्तञ्च -
जह सत्तीए पमाणं भोगुवभोगाण किज्जई जत्थ ।
भोगोवभोग नामं तं मुणसु गुणव्वयं बीयं ।।१।। तथा सामाइयत्ति समस्य आयो लाभ: समायः, समाय एव सामायिकं प्राकृतत्वाद्विभक्तिलोपः । तद् द्वितीयं शिक्षाव्रतं मूलक्रमेण तु प्रथमम् । उक्तञ्च -
निरवज्जं समुहत्तं सुहझाणगयस्स जो समो भावो ।
गिहिणो तं सामाइय नामं सिक्खावयं पढमं ।।१।। अतिहिसंविभागोयत्ति - न सन्ति तिथय: पर्वाण्युत्सवाश्च यस्यासावतिथिः । उक्तञ्च -
तिहिपवूसवनियसयणमाइसंबंधवज्जणुजुत्तो । अतिही सो विन्नेओ पवित्तपत्तं नियधणस्स ।।१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org