________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ४
तथा अर्थ्यते क्रियते प्रयोजनवशतया इत्यर्थः । न अर्थोऽनर्थः, अनर्थं निष्प्रयोजनं दण्ड्यन्ते निपात्यन्ते जीवा एभिरित्यनर्थदण्डास्तेभ्यो यद्विरमणं तद् द्वितीयं गुणव्रतं, मूलक्रमेण तु तृतीयम्। उक्तञ्च -
अवज्झाणपमायायरिय पावोवएसहिंसदाणेहिं ।
चउहा अणत्थदंडो तब्बिरई गुणव्वयं तईयं ।।१।। देसावगासियं पियं ति दिशामवकाश: प्रतिदिनमानं तत्र भवं देशावकाशिकं तदपि च विरमणरूपं तत्तृतीयं गुणव्रतमिति । मूलक्रमेण द्वितीयं शिक्षाव्रतम् । उक्तञ्च -
जा (जो) जीवगहिय दिसिंवयपमाणं संखेवणं जमणुदियहं ।
देसावगासियं तं बीयं सिक्खावयं जाण ।।१।। आह - अस्य शिक्षाव्रतत्वेन प्रसिद्धत्वात्कथं गुणव्रतत्वमुच्यते । अन्ने भणंति - सव्ववएसु जे पमाणा ठविया । ते पुण दिवसओ ओसरेइ । एवं
एगमुहत्तं दिवसं राई पंचाहमेव पक्खं वा ।
वयमिह धारेइ दढं जावइयं उव्वहे काले ।।१।। [संबो० १२३६] इत्यावश्यकचूर्णिवचनात् केषाञ्चिन्मतेन - सव्ववयाणं करेज्ज संखेवमिति । तन्मतमाश्रित्य सर्वव्रतगुणकारकत्वाद्देशावकाशिकस्यापि गुणवतत्वमित्यदोष इति गाथार्थः ।।४।।
सोम० अथ सामान्येन शिक्षाव्रतान्युक्तानि तान्येव गुणभूतशिक्षाव्रतव्यक्त्याऽऽह . १-पूर्वादीनां दिशां गमनविषयतया परिमाणकरणेन तदग्रतो गमनादेविरमणं यत् तत् प्रथमं गुणव्रतम् ।
"जो धरइ दिसिवयमिमं सो अभयं देइ सव्वजीवाणं ।
भुवणम्मि पसरमाणं लोभसमुदं पडिखलेइ" ।। २ - तथाऽर्थः प्रयोजनं नार्थोऽनर्थः, अनर्थं निष्प्रयोजनं दण्डयन्ते धर्मस्यापहारेण जीवा एभिरिति दण्डा मनोवाक्कायव्यापारास्तेभ्यो यद्विरमणं तत् द्वितीयं गुणव्रतम् । ३ - यावज्जीवं गृहीतसर्वव्रतनियमानां दिग्गमननियमस्यैव वा प्रतिदिनं संक्षेपकरणं देशावकाशस्तत्र भवं देशावकाशिकं एतच्च तृतीयं गुणव्रतम् । अस्य शिक्षाक्तत्वेन प्रसिद्धस्याप्यत्र सर्वव्रतगुणकारकत्वाद् गुणव्रतत्वं विवक्षितमिति न दोषः ।।४।। .. गुण. दिशां विरमणं दिविरमणं दिशा वा कृत्वा यद्विरमणं तत् प्रथमं गुणव्रतम् ।
जो धरइ दिसिवयमिमं सो अभयं देइ सव्वजीवाणं ।
भुवणम्मि पसरमाणं लोभसमुदं पडिखलेइ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org