SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ४ तथा अर्थ्यते क्रियते प्रयोजनवशतया इत्यर्थः । न अर्थोऽनर्थः, अनर्थं निष्प्रयोजनं दण्ड्यन्ते निपात्यन्ते जीवा एभिरित्यनर्थदण्डास्तेभ्यो यद्विरमणं तद् द्वितीयं गुणव्रतं, मूलक्रमेण तु तृतीयम्। उक्तञ्च - अवज्झाणपमायायरिय पावोवएसहिंसदाणेहिं । चउहा अणत्थदंडो तब्बिरई गुणव्वयं तईयं ।।१।। देसावगासियं पियं ति दिशामवकाश: प्रतिदिनमानं तत्र भवं देशावकाशिकं तदपि च विरमणरूपं तत्तृतीयं गुणव्रतमिति । मूलक्रमेण द्वितीयं शिक्षाव्रतम् । उक्तञ्च - जा (जो) जीवगहिय दिसिंवयपमाणं संखेवणं जमणुदियहं । देसावगासियं तं बीयं सिक्खावयं जाण ।।१।। आह - अस्य शिक्षाव्रतत्वेन प्रसिद्धत्वात्कथं गुणव्रतत्वमुच्यते । अन्ने भणंति - सव्ववएसु जे पमाणा ठविया । ते पुण दिवसओ ओसरेइ । एवं एगमुहत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेइ दढं जावइयं उव्वहे काले ।।१।। [संबो० १२३६] इत्यावश्यकचूर्णिवचनात् केषाञ्चिन्मतेन - सव्ववयाणं करेज्ज संखेवमिति । तन्मतमाश्रित्य सर्वव्रतगुणकारकत्वाद्देशावकाशिकस्यापि गुणवतत्वमित्यदोष इति गाथार्थः ।।४।। सोम० अथ सामान्येन शिक्षाव्रतान्युक्तानि तान्येव गुणभूतशिक्षाव्रतव्यक्त्याऽऽह . १-पूर्वादीनां दिशां गमनविषयतया परिमाणकरणेन तदग्रतो गमनादेविरमणं यत् तत् प्रथमं गुणव्रतम् । "जो धरइ दिसिवयमिमं सो अभयं देइ सव्वजीवाणं । भुवणम्मि पसरमाणं लोभसमुदं पडिखलेइ" ।। २ - तथाऽर्थः प्रयोजनं नार्थोऽनर्थः, अनर्थं निष्प्रयोजनं दण्डयन्ते धर्मस्यापहारेण जीवा एभिरिति दण्डा मनोवाक्कायव्यापारास्तेभ्यो यद्विरमणं तत् द्वितीयं गुणव्रतम् । ३ - यावज्जीवं गृहीतसर्वव्रतनियमानां दिग्गमननियमस्यैव वा प्रतिदिनं संक्षेपकरणं देशावकाशस्तत्र भवं देशावकाशिकं एतच्च तृतीयं गुणव्रतम् । अस्य शिक्षाक्तत्वेन प्रसिद्धस्याप्यत्र सर्वव्रतगुणकारकत्वाद् गुणव्रतत्वं विवक्षितमिति न दोषः ।।४।। .. गुण. दिशां विरमणं दिविरमणं दिशा वा कृत्वा यद्विरमणं तत् प्रथमं गुणव्रतम् । जो धरइ दिसिवयमिमं सो अभयं देइ सव्वजीवाणं । भुवणम्मि पसरमाणं लोभसमुदं पडिखलेइ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy