SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ खण्ड :-१ गा. ४ मिथ्या वचनं मृषावादः क्रोधादिवशादसद्भूतवचनादिरूपः । स्वाम्यादिभिर्न दत्तम् अदत्तं सचित्ताचित्तमिश्रभेदम् । दारयन्ति विदारयन्ति पुरुषस्याऽन्तरङ्गबहिरङ्गगुणानिति, दाराः परेषां दाराः परदाराः । ततः प्राणवधश्च मृषावादश्चादत्तादानं च परदाराश्च तेषां नियमनैरुपरमैस्तथा न परिमिता अपरिमिता या इच्छा परिग्रहविषया, ततोऽपि च यानि विरमणानि निवृत्तयस्तान्यणुव्रतानि भवेयुः । स्थूलशब्दोपपदानि वाच्यानि ।।३।। गुण. पाण० प्राणवधो न तु प्राणिवधो जीववधस्तस्य हन्तुमशक्यत्वात् । मुसावाएत्ति एकारः प्राकृतभवः । मृषा मिथ्यावदनं मृषावादः । स च द्रव्यभावभेदाद् द्विधा क्रोधादिभेदादभूतोद्भावनभेदाच्च चतुर्धा । तत्र क्रोधादिभेदाः प्रसिद्धाः । १-तत्राभूतोद्भावनं यथा सर्वगत आत्मा, २-भूतनिह्नवो यथा नास्त्यात्मा, ३-वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति वदतः ४-परनिन्दावचनो यथा कुष्टी त्वमिति । नं दत्तमदत्तम् । तच्च स्वामिजीवतीर्थंकरगुरुभेदतश्चतुर्धा। भीमो भीमसेन इति न्यायाददत्तादानम् । परेषां दाराः परदाराः परकलत्राणि तेषां नियमनैरुपरमैः । अणुव्रताः[तानि] तावत् स्थूलशब्दोपपदानि सर्वाणि वाच्यानि । अपरिमितेच्छातश्च यानि विरमणानि निवृतयस्तैरणुव्रतानि भवेयुरिति गाथार्थः ।।३।। जं च दिसावेरमणं अणत्थदंडाउ जं च वेरमणं । देसावगासि पि य गुणव्वयाइं भवे ताई ।।४।। यच्च दिग्विरमणमनर्थदण्डात् यच्च विरमणम् । देशावकाशिकमपि च गुणव्रतानि भवेयुस्तानि ।।४।। भुव० अथ यत्सामान्येन 'सत्त उ सिक्खाओ देसजइधम्मो, इत्युक्तम् । तान्येव विशेषतया गुणव्रतशिक्षाव्रते व्यपदिशन् प्रथमं गुणव्रतान्याह - दिश्यन्ते जीवा गमनागमनत्वेनास्विति दिशः । विरतिविरमणं दिशां विरमणं दिक्विरमणं, दिशा वा कृत्वा यद्विरमणं तत्प्रथम गुणव्रतम् । उक्तञ्च दससु दिसासु बहिया लंधिज्जइ जत्थ नेव भूमीसा । तं दिसि विरइत्ति वयं पढमं गुणव्वयं तिगस्स ।।१।। जो धरइ दिसिवयमिमं सो अभयं देइ सयलजीवाणं । भुवणंमि पसरमाणं लोभसमुदं पडिखलेइ ।।२।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy