________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ३
पाणवह-मुसावाए-अदत्त-परदारनियमणेहिं च । अपरिमिइच्छाओ वि य अणुव्वयाइं विरमणाई ।।३।। प्राणवघ-मृषावादा-दत्त-परदारनियमनैश्च ।
अपरिमितेच्छातोऽपि च विरमणान्यणुव्रतानि ।।३।। भुव० तत्र तावत्प्रथममणुव्रतानि नामत आह - प्राणा इन्द्रियबलश्वासायुर्लक्षणास्तेषां वधो विनाश: प्राणवधः । न तु प्राणिवधो जीववध: तस्य हन्तुमशक्यत्वात् । यत आह
दवट्ठयाइ निच्चो उप्पायविणासवज्जिओ जेण ।
पुवकयाणुसरणउ पज्जाया तस्स ओ अणिच्चा ।।१।। [सम्य. सप्त. ६१] तर्हि वधः कथम् उच्यते -
तप्पज्जायविणासो दुखुप्पाओअ संकिलेसो य ।
एस वहो जिणभणिओ वज्जेयव्यो य पयत्तेणं ।।२।। [श्राव. प्रज्ञ. १९१] मुसावाए त्ति एकार: प्राकृतप्रभवः । मृषा मिथ्या वदनं मृषावादः, स च द्रव्यभावभेदाद् द्विधा । क्रोधादिभेदादभूतोद्भावनादिभेदाच्च चतुर्धा । तत्र क्रोधादिभेदाः प्रसिद्धाः । तत्र १अभूतोद्भावनं यथा सर्वगत आत्मा, २- भूतनिह्नवो यथा नास्ति आत्मा, ३- वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति वदतः, ४- परनिन्दावचनो यथा कुष्टी त्वमिति । दानं दत्तं, न दत्तमदत्तम् । तच्च स्वामिजीवतीर्थंकरगुरुभेदतश्चतुर्द्धा, सचित्ताचित्तमिश्रभेदतस्त्रिधा भीमो भीमसेन इति न्यायाददत्तमदत्तादानम् । परदारनियमणेहिं च त्ति दारयन्ति, विदारयन्ति, नाशयन्ति पुरुषस्याऽन्तरङ्गबहिरङ्गगुणानिति दाराः, परेषां दारा: [परदारा:] परकलत्राणि । ततः प्राणवधश्च मृषावादश्चादत्तादानं च परदाराश्च प्राणवधमृषावादादत्तादानपरदारास्तेषां नियमनैरुपरमैः । च: पूरणे । अणुव्रतप्रस्तावात् स्थूलपदोपपदानि सर्वाणि वाच्यानि । अपरिमिय इच्छाओ वि य त्ति परिमिता न परिमिता अपरिमिता । एषणमिच्छा अपरिमिता चेच्छा च तस्या अपरिमितेच्छातश्च । यानि विरमणानि निवृत्तयस्तैरणुव्रतानि भवेयुस्तानीति गाथार्थः ।।३।।
सोम० प्रथममणुव्रतानि नामत आह - प्राणा इन्द्रियबलोच्छ्वासायुर्लक्षणास्तेषां वधो विनाशः प्राणवधः, न तु प्राणिवधो, जीवस्य हन्तुमशक्यत्वात् । 'मुसावाए' त्ति एकारः प्राकृतत्वात् । मृषा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org