SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा.२ बालबालमरणं, २-अविरतसम्यग्दृष्टेबलमरणं, ३-देशविरतस्य बालपण्डितमरणं, ४-छद्मस्थयतीनां पण्डितमरणं, ५-केवलिनां पण्डितपण्डितमरणं चेति ।।१।। गण. देशस्य त्रसकायस्यैकदेशः । सङ्कल्पजनिवृत्तिरूपस्तस्यापि सापराधनिरपराधत्वेन द्विप्रकारत्वात् । तस्य देशैकदेशमात्रस्य स्वयं हननघातनतया विरतो निवृत्तो सम्यग्दृष्टिः म्रियते पञ्चत्वमुपयाति । यः श्राद्धजीवः । तज्जिनशासने बालपण्डितमरणमिति दृष्टं, शेषशासनेषु बालादिभाषाया एवाभावात् । तत्र सर्वविरतिपरिणामाभावाद् बालं स्थूलप्राणातिपाता-दिविरमणाच्च पण्डितं, बालं च तत् पण्डितं च बाल० ।।१।। पंच य अणुव्वयाइं सत्त उ सिक्खा उ देस-जइधम्मो । सव्वेण व देसेण व तेण जुओ होइ देसजई ।।२।। पञ्च चाणुव्रतानि सप्तैव शिक्षा तु देशयतिधर्मः । सर्वेण वा देशेन वा तेन युतो भवति देशयतिः ।।२।। भुव० अथ यगतयोगाद्देशयतिर्भवति तानि व्रतानि दर्शयन्नाह - पञ्चेति संख्या अणूनि लघूनि महाव्रतापेक्षया स्थूलप्राणातिपातादिविरमणरूपाणि व्रतान्यणुव्रतानि। तथा सप्त वा शिक्षाव्रतानि, [तत्कथमत्र सप्त शिक्षाव्रतानि ?] उच्यते-गुणव्रतानामपि निरन्तरमभ्यसनतया शिक्षाव्रतत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानीत्यदोषः । एष द्वादशव्रतात्मक: श्रावकधर्मो देशयतिधर्मः । तेन सर्वेण द्वादशव्रतात्मकेन देशेन वाऽन्यतरव्रतप्रतिपत्तिलक्षणेन युक्तो देशयतिर्भवतीति गाथार्थः ।।२।। सोम० अथ यद्तयोगाद्देशविरतो भवति तानि व्रतान्याह - अणूनि लघूनि महाव्रतापेक्षया स्थूलप्राणातिपातादिविरमणरूपाणि व्रतान्यणुव्रतानि पञ्च । तथा सप्त च शिक्षाप्रधानानि व्रतानि शिक्षाव्रतानि । गुणव्रतानामपि नित्यमभ्यसनीयतया शिक्षाव्रतत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानि, एवं द्वादशव्रतरूपो देशयतिधर्मः श्रावकधर्म उच्यते । तेन सर्वेण द्वादशव्रतात्मकेन देशेन वाऽन्यतरव्रतप्रतिपत्तिलक्षणेन युतो युक्तो देशयतिः श्रावको भवतीति ।।२।। गुण. अथ यद्योगाद्देशयतिर्भवति तानि व्रतानि दर्शयन्नाह - पञ्च० अणूनि लघूनि महाव्रतापेक्षया तथा सप्त च शिक्षाप्रधानानि व्रतानि शिक्षाव्रतानि । तत्कथमत्र सप्त शिक्षाव्रतानि ? उच्यतेगुणवतानामपि निरन्तरमभ्यसनतया शिक्षाव्रतत्वेन विवक्षणात् सप्त शिक्षाव्रतान्युक्तानीत्यदोषः । तेन सर्वेण वा द्वादशव्रतात्मकेन देशेन वा अन्यतर व्रतप्रतिपत्तिलक्षणेन युक्तो देशयतिर्भवतीति ।।२।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy