________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. १
निवृत्तो देशैकदेशविरतः । सम्मदिट्ठीत्ति - सम्यगविपरीता तत्त्वश्रद्धानरूपा दृष्टिदर्शनं मतिर्यस्याऽसौ सम्यग्दृष्टिः । मरिज्जत्ति - म्रियेत पञ्चत्वमुपयायात् । जो जीवोत्ति - यः श्रावकजीवः । तं होइ बालपंडियमरणं ति - इह शासने मरणमनेकधा वर्णितम् । तथाहि -
आवीइ ओहि अंतिय वलाइमरणं वसट्टमरणं च । अंतोसल्लं तब्भव बालं तह पंडियं मीसं ।।१।। [उत्तरा. निर्यु२१२] छउमत्थमरण केवलि-वेहाणस-गिद्धपट्ठ-मरणं च ।
मरणं भत्तपरिण्णा इंगिणी-पाओवगमणं च ।।२।। [उत्तरा. नियु, २१३] तच्चानेकविधमपीह पञ्चधा परिकल्पितम् । तद्यथा - बालबालमरणं, बालमरणं, बालपण्डितमरणं, पण्डितमरणं, पण्डितपण्डितमरणं चेति । तत्र मिथ्यादृष्टेबलबालमरणम्, अविरतसम्यग्दृष्टेबलमरणं, देशयतेर्बालपण्डितमरणं, छद्मस्थयते: पण्डितमरणं, केवलिनः पण्डितपण्डितमरणम् । तदत्र ग्रन्थे तुलादण्डन्यायान्मध्यग्रहणे आद्यन्तयोरपि ग्रहणं कृतं भवतीति ज्ञेयम् । तदिह यद्देशयतिमरणं तज्जिनशासने बालपण्डितमरणमिति द्दष्टं, शेषशासनेषु बालादिभाषाया एवाभावात् । तत्र सर्वविरतिनियमपरिणामाभावाद्वालं स्थूलप्राणातिपातादिविरमणाच्च पण्डितं बालं च तत्पण्डितं च बालपण्डितं तद्योगान्मरणमपि बालपण्डितमित्यर्थः ।।१॥
सोम. अथातुरप्रत्याख्यानावचूरिलिख्यते । इह सर्वेषां जीवानां नवहस्तकुन्तस्याग्रस्येव सकलायुषोऽन्त्यावस्थाऽऽराधनस्यैव सारत्वादनेनाध्ययनेनान्त्याऽवस्थाऽऽराधनस्वरूपमाहदेसिक्क'त्ति - नन्वत्राध्ययने नमस्कारः कस्मान्न कृतः ? उच्यते - वीरभद्रगणिनैव पूर्वं भक्तपरिज्ञाचतुःशरणे कृत्वेदमध्ययनं कृतं, तेन तत्रोक्त एव नमस्कारोऽत्रापि ज्ञेय एककर्तुकत्वात् । देसि.त्ति - षण्णां पृथिव्यादिकायानां षष्ठांशत्वाद् देशस्त्रसकायव्यपरोपणलक्षणस्तस्यापि सङ्कल्पजारम्भजत्वेन द्विभेदत्वादेकदेशः सङ्कल्पजस्त्रसविनाशनिवृत्तिरूपः पुनस्तस्याऽपि सापराधनिरपराधभेदद्वयेन द्विप्रकारत्वादत्र निरपराधसङ्कल्पजत्रसजीवविनाशनिवृत्तिरूपो देशैकदेशस्तेन स्वयं हननघातनाद् विरतो निवृत्तो देशैकदेशविरतः । तथा सम्यगविपरीता तत्त्वश्रद्धानरूपा दृष्टिदर्शनं यस्याऽसौ सम्यग्दृष्टिः, एवंविधो यो जीवः श्रावकसम्बन्धी म्रियते तदिह मरणं जिनशासने बालपण्डितमरणमिति भणितं दृष्टं, शेषशासनेषु बालमरणादिभाषाया एवाभावात् । तत्र सर्वविरतिपरिणामाभावात् बालं, स्थूलप्राणातिपातादिविरमणाच्च पण्डितं, बालं च तत् पण्डितं च बालपण्डितं, तद्योगान्मरणमपि बालपण्डितमित्यर्थः । श्रीजिनशासने च मरणमनेकधा कथितमावीचिमरणादिभेदात्, तच्चानेकविधमपीह पञ्चधा परिकल्पितं, तद्यथा १-मिथ्यादृशां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org