SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥ सर्ववाञ्छित-मोक्षफलप्रदायक-श्रीशङ्केश्वर-चिन्तामणिपार्श्वनाथाय नमो नमः ।। ।।माया-रसा-दारण-सारसीरं, नमामि वीरं गिरिसारधीरम् ।। ।। त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ज्ञानबीजं जिनराजबीजम् । यत्राम चोक्तं विदधाति सिद्धिं, स गौतमो यच्छतु वाञ्छितं मे ।। ।।श्रीवीरविभुहस्तदीक्षितवीरभद्रगणिने नमः ।। ॥नमामि नित्यं गुरुरामचन्द्रम् ।। ।। ऐं नमः ।। आञ्चलिकगच्छीयाचार्यश्रीभुवनतुङ्गसूरिकृतवृत्तियुतं, तपागच्छपूरन्दराचार्यश्रीसोमसुन्दरसूरिकृतावचूरिसहितं, तार्किकरत्नाचार्यश्रीगुणरत्नसूरिकृतावचूरिसमन्वितं, श्रमणभगवत्श्रीमत्महावीरप्रभुशिष्यसौधरत्नरूपश्रीवीरभद्राचार्यप्रणीतं श्रीआतुरप्रत्याख्यानप्रकीर्णकसूत्रम् देसिक्कदेसविरओ सम्मद्दिट्ठी मरिज्ज जो जीवो । तं होइ बालपंडियमरणं जिणसासणे भणियं ।।१।। देशैकदेशविरतः सम्यग्दृष्टिम्रियते यो जीवः । तद् भवति बालपण्डितमरणं जिनशासने भणितम् ।।१।। भुव० नत्वा वीरजिनं वक्ष्ये मुग्धोऽपि स्वगुरोर्मुखात् । आतुरप्रत्याख्यानस्य कियत्पदविचारणम् ।।१।। ननु शास्त्रादौ सर्वश्रेष्टदेवतानमस्कारो दृश्यते । तदत्र तदभावादिदमुद्धाररूपं भविष्यतीति मन्ये। तन्न, पाक्षिकेऽस्याभिधानात् पृथक् प्रकीर्णकमिदम् । तर्हि कथं [न] नमस्कारः ? सत्यं, मनोवाक्कायभेदात् त्रिधा नमस्कारो भवति । ततो यद्यप्यत्र वाचिको न कृतस्तथापि मानसिककायिकौ कृतौ भविष्यतः। किञ्चैतदपि सम्भावयामि - भक्तपरिज्ञाध्ययनकरणानन्तरमेव वीरभद्रेणेदं कृतमिति चेत्कथं ज्ञायते ? "जो भत्तपरिन्नाए" इत्यतिदेशात् भक्तपरिज्ञाचतुःशरणे तु तेन कृते इति व्यक्तमेवास्तीति सर्वं सुस्थम् । षण्णां पृथिव्यादिकायानां षष्टांशत्वाद्देशस्त्रसकायव्यपरोपणलक्षणस्तस्यापि सङ्कल्पजारम्भजत्वेन द्विभेदत्वात् । देशस्य त्रसकायस्य एकदेश: संकल्पजनितावृत्तिरूप: तस्याऽपि सापराधनिरपराधत्वेन द्विप्रकारत्वात् । तत्र देशैकदेशमात्रस्य स्वयं हननघातनतया विरतो Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy