________________
परिशिष्टम्-७ मूलाचारतुलनागाथाः
३५१
आतुर. गा० ५४ पुनरपि शिक्षां ददाति
हंदि चिरभाविदा वि य जे पुरुसा मरणदेसयालम्मि ।
पुवकदकम्मगरुयत्तणेण पच्छा परिवडंति ।।८४ ।। हंदि-जानीहि-सामान्यमरणं वा । चिरभाविदावि य-चिरभाविता अपि देशोनपूर्वकोटी कृताचरणा अपि । जे-यस्त्वं वा पुरुषैः सह सम्बन्धाभावात् । पुरिसा-पुरुषा मनुष्याः । मरणदेशयालम्मि-मरणकाले मरणदेशे वा अथवा मरणकाल एवानेनाभिधीयते । पुवकदकम्मगरुयत्तणेण-पूर्वस्मिन् कृतं कर्म पूर्वकृतकर्म तेन गुरुकं तस्य भावः पूर्वकृतकर्मगुरुकत्वं तेनान्यस्मिन्नर्जितपापकर्मणा । पच्छा-पश्चात् । परिवडंति-प्रतिपतन्ति रत्नत्रयात् पृथग्भवन्ति यतः ।।८४।। आतुर. गा० ५५
तह्मा चंदयवेज्झस्स कारणेण उज्जदेण पुरिसेण ।
जीवो अविरहिदगुणो कादव्वो मोक्खमग्गमि ।।८५॥ तम्हा-तस्मात् । चंदयवेज्झस्स-चंद्रकवेध्यस्य । कारणेन-निमित्तेन । उज्जदेण-उद्यतेन उपर्युक्तेन। पुरिसेण-पुरुषेण । जीवो-जीवः आत्मा। अविरहिदगुणो-अविरहितगुणोऽविराधितपरिणामः । कादव्वो-कर्तव्यः । मोक्खमग्गम्मि-मोक्षमार्गे सम्यक्त्वज्ञानचारित्रेषु । यतश्चिरभाविता अपि पुरुषा मरणदेशकाले पूर्वकृतकर्मगुरुकत्वेन पश्चात् प्रतिपतन्ति तस्मात् यथा चन्द्रकवेध्यनिमित्तं जीवोऽविरहितगुणः क्रियते तथोद्यतेन पुरुषेणात्मा मोक्षमार्गे कर्तव्य इत्येवं जानीहि निश्चयं कुर्विति ।।८५।। आतुर. गा० ५६ कथं यत्नः क्रियते यावता हि तस्मिन् कालेऽभ्रावकाशादिकं न कर्तुं शक्यते इत्याह
बाहिरजोगविरहिओ अब्भंतरजोगझाणमालीणो ।
जह तम्हि देसयाले अमूढसण्णो जहसु देहं ।।८६।। बाहिरजोगविरहिदो-बाह्याश्च ते योगाश्च बाह्ययोगा अभ्रावकाशादयस्तै विरहितो हीनो बाह्ययोगविरहितः । अब्भंतरजोगझाणमालीणो-अभ्यंतरयोगं अन्तरंगपरिणामं ध्यानं एकाग्रचिन्तानिरोधनं आलीनः प्रविष्टः । जह-यथा । तम्हि-तस्मिन् । देसयाले-देशकाले
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org