SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३४८ आतुरप्रत्याख्यानप्रकीर्णकम आतुर. गा. ४७ एवं श्रुत्वा क्षपकः संवेगनिर्वेदपरायण एवं चिन्तयति उड्ढमघो तिरियहि दु कदाणि बालमरणाणि बहुगाणि । दंसणणाणसहगदो पंडियमरणं अणुमरिस्से ।।७५।। उड्ढे-ऊर्ध्वं ऊर्ध्वलोके । अधो-अधसि अधोलोके नरकभवनव्यन्तरज्योतिष्ककल्पे । तिरियहि दु-तिर्यक्षु च एकेन्द्रियादिपंचेन्द्रियपर्यन्तजातिषु । कदाणि-कृतानि प्राप्तानि बालमरणानि । बहुगाणि-बहूनि । दंसणणाणसह-दर्शनज्ञानाभ्यां सार्धं, गदो-गतः प्राप्तः, पंडियमरणंपण्डितमरणं शुद्धपरिणामचारित्रपूर्वकप्राणत्यागम् । अणुमरिस्से-अनुमरिष्यामि संन्यासं करिष्यामि । ऊर्ध्वाधस्तिर्यक्षु च बहूनि बालमरणानि यतो मया प्राप्तानि, अतो दर्शनज्ञानाभ्यां सार्धं पण्डितमरणं गतोऽहं मरिष्यामीति । आतुर. गा. ४८ एतानि चाकामकृतानि मरणानि स्मरन् पण्डितमरणमनुमरिष्यामीत्यत आह उब्वेयमरणं जादीमरणं णिरएसु वेदणाओ य । एदाणि संभरंतो पंडियमरणं अणुमरिस्से ।।७६।। उव्वेयमरणं-उद्वेगमरणं इष्टवियोगानिष्टसंयोगाभ्यां त्रासेन वा मरणम् । जादीमरणं-जातिमरणं उत्पन्नमात्रस्य मृत्युर्गर्भस्थस्य वा । णिरएसु-नरकेषु । वेदणाओ य-वेदनाश्च पीडाश्च । एदाणि-एतानि । संभरंतो-संस्मरन् । पंडिदमरणं-पण्डितमरणम् । अणुमरिस्से-अनुमरिष्यामि प्राणत्यागं करिष्यामि । एतानि उद्वेगजातिमरणानि नरकेषु वेदनाश्च संस्मरन् पण्डितमरणं प्राप्तः सन् प्राणत्यागं करिष्यामि । किमर्थं पंडितमरणं मरणेषु शुभतमं यतः एक्कं पंडिदमरणं छिंददि जादीसयाणि बहुगाणि । तं मरणं मरिदव्वं जेण मदं सुम्मदं होदि ।।७७।। एक्कं-एकं । पंडिदमरणं-पंडितमरणम् । छिंददि-छिनत्ति । जादीसयाणि-जातिशतानि । बहुगाणि-बहूनि । तं-तत् तेन वा । मरणं-शरीरेन्द्रिययोवियोगः । मरिदव्वं-मर्तव्यं मरणं प्राप्तव्यम्। जेण-येन । मदं-मृतम् । सुम्मदं-सुष्ठुमृतम् । होदि-भवति । एकं पण्डितमरणं जातिशतानि बहूनि छिनत्ति यतोऽतस्तेन मरणेन मर्तव्यं येन पुनरुत्पत्तिर्न भवति तद्वानुष्ठातव्यं येन न पुनर्जन्म । किमुक्तं भवति-पंडितमरणमनुष्ठेयमिति ।।७७ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy