SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३४२ आतुरप्रत्याख्यानप्रकीर्णकम् गर्हणीयं परप्रकाशयोग्यम् । आलोचेमि य-आलोचयामि चापनयामि चारित्राचारालोचनापूर्वकं गर्हणं वा करोमि । सव्वं-सर्वं निरवशेषम् । सब्भंतरवाहिरं-साभ्यन्तरबाह्यम् । उवहि-उपधिं च परिग्रहं च । यन्निदनीयं तन्निन्दामि, यद् गर्हणीयं तद् गर्हामि, सर्वं बाह्याभ्यतरं चोपधिं आलोचयामीति । आतुर. गा. ३३ कथमालोचयितव्यमिति चेदत आह जह बालो जंप्पंतो कज्जमकज्जं च उज्जुयं भणदि । तह आलोचेयव्वं माया मोसं च मोत्तूण ।।५६ ।। जह-यथा । बालो-बालः पूर्वापरविवेकरहितः । जंप्पंतो-जल्पन् । कज्जं-कार्यं स्वप्रयोजनम्। अकज्जं च-अकार्यं अप्रयोजनं अकर्तव्यं च । उज्जुयं-ऋजु अकुटिलम् । भणइ-भणति। तहतया। आलोचेयव्वं-आलोचयितव्यम् । मायामोसं च-मायां मृषां च अपह्नवासत्यं च । मोत्तूण-मुक्त्वा। यथा कश्चिद्बालो जल्पन् कुत्सितानुष्ठानमकुत्सितानुष्ठानं च ऋजु भणति, तथा मायां मृषां च मुक्त्वा लोचयितव्यमिति । आतुर. गा. ३४ यस्यालोचना क्रियते स किंगुणविशिष्ट आचार्य इति चेदत आह णाणम्हि दंसणम्हि य तवे चरित्ते य चउसुवि अकंपो । . धीरो आगमकुसलो अपरस्साई रहस्साणं ।।५७।। णाणम्हि-ज्ञाने । दंसणम्हि य-दर्शने च । तवे-तपसि । चरित्ते य-चरित्रे च । चउसुविचतुर्ध्वपि । अकंपो-अकंपोऽधृष्यः । धीरो-धीरो धैर्योपेतः । आगमकुसलो-आगमकुशलः स्वसमयपरसमयविचारदक्षः । अपरिस्साई-अपरिश्रावी आलोचितं न कस्यचिदपि कथयति । रहस्साणं-रहसि एकान्ते भवानि रहस्यानि गुह्यानुष्ठितानि । ज्ञानदर्शनतपश्चारित्रेषु चतुर्ध्वपि सम्यस्थितो यो रहस्यानामपरिश्रावी धीरश्चागमकुशलश्च यस्तस्य आलोचना कर्तव्या नान्यस्येति । आतुर. गा. ३५ आलोचनानन्तरं क्षमणं कर्तुकामः प्राह रागेण य दोसेण य जं मे अकदण्हुयं पमादेण । जो मे किंचिवि भणिओ तमहं सव्वं खमावेमि ।।५८।। रागेण य-रागेण च मायालोभाभ्यां स्नेहेन वा । दोसेण य-द्वेषेण च क्रोधमानाभ्यां अप्रीत्या _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy