SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ७ मूलाचारतुलनागाथाः आतुर गा. ३० प्रमादाः पुनः किं न परिह्रियन्त इति चेन्न तानपि परिहरामीत्यत आह सत्त भए अट्ठ मए सण्णा चत्तारि गारवे तिण्णि । तेत्तीसाच्चासणाओ रायद्दोसं च गरिहामि ।। ५२ ।। आतुर० गा० ३१ तथा सत्तभए-सप्तभयानि 1 अट्ठमए- अष्टौ मदानि 1 सण्णा चत्तारि - संज्ञाश्चतस्रः आहारभयमैथुनपरिग्रहाभिलाषान् । गारवे-गौरवाणि ऋद्धिरससातविषयगर्वान् । तिण्णि-त्रीणि । तेत्तीसाच्चासणाओ-त्रिभिरधिका त्रिंशत् त्रयस्त्रिंशत् पदार्थैः सह सम्बन्धः । त्रयस्त्रिंशतां पदार्थानां, अच्चासणा-आसादनाः परिभवास्तास्त्रयस्त्रिंशदासादनाः, अथवा तन्निमित्तत्वात् ताच्छब्द्यन्ते । रायद्दोसं च-रागद्वेषौ च, आत्मनीनानात्मनीनवस्तुप्रीत्यप्रीति । गरिहामि गर्ह नाचरामीत्यर्थः । सप्तभयाष्टमदसंज्ञागारवाणि त्रयस्त्रिंशत्पदार्थासादनं च रागद्वेषौ च त्यजामीत्यर्थः । अस्संजममण्णाणं मिच्छत्तं सव्वमेव य ममत्तिं । जीवेसु अजीवेसु य तं शिंदे तं च गरिहामि ।। ५१ ।। I अस्संजमं-असंयमं पापकारणम् । अण्णाणं - अज्ञानं अश्रद्धानपूर्वकवस्तुपरिच्छेदम् । मिच्छत्तं-मिथ्यात्वमतत्त्वार्थश्रद्धानम् । सव्वमेव य-सर्वमेव च । ममत्तिं - ममत्त्वमनात्मीये आत्मीयभावम् । जीवेसु अजीवेसु य-जीवाजीवविषयं च । तं णिंदे-तं निन्दामि । तं च तच्च । गरिहामि गर्हेऽहं परस्य प्रकटयामि । मूलोत्तरगुणेषु मध्ये यन्नाराधितं प्रमादतोऽतीतानागतकाले तत्सर्वं निन्दामि प्रतिक्रमामि च । असंयमाज्ञानमिथ्यात्वादि जीवाजीवविषयं ममत्वं च सर्वं ग निन्दामि चेति प्रमाददोषेण दोषास्त्यज्यन्ते । आतुर० गा० ३२ आत्मसंस्कारकालं नीत्वा संन्यासालोचनार्थमाचार्यः प्राह णिदामि णिदणिज्जं गरहामि य जं च मे गरहणीयं । आलोचेम य सव्वं सब्भंतरबाहिरं उवहिं ।। ५५ ।। ३४१ णिंदामि - निन्दामि आत्मन्याविष्करोमि । णिंदणिज्जं - निन्दनीयं आत्माविष्करणयोग्यम् । गरहामि य ग च आचार्यादीनामाविष्करोमि प्रकटयामि । जंच - यच्च । मे मम । गरहणीयं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy