SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३२५ परिशिष्टम्-२ त्रिषष्टिदुर्ध्यानम् । कर्मोदयप्रत्ययेन कर्मोदयहेतुना ध्यानं कर्मोदयप्रत्ययध्यानं प्रथमं शुभपरिणामवतोऽपि पश्चात् कुतश्चित्कर्मोदयतोऽशुभपरिणामत्वं पर्यन्तकाले विष्णोरिव ।।५८।। राज्यैश्वर्यादिरूपा ऋद्धिस्तया गौरवमात्मोत्कर्षरूपं तस्य ध्यानमृद्धिगौरवध्यानं दर्शार्णभद्रस्येव ।।५९।। रसगौरवध्यानं रसनेद्रियग्राह्यरसस्तेन गौरवं यथा मम रसवतीरसास्तथा किमन्यस्यापि सन्ति ? इत्यभिमानरूपं तस्य ध्यानमुदकज्ञातोक्तजितशत्रुराजस्येव सुबुद्धिमन्त्रिणोऽग्रे रसवतीरसान् प्रशंसतः ।।६०।। सायागारवंझाणे [सातागारव-ध्यानं] सातं सुखं तेन गौरवं गर्वो यथाऽहमेव सुखीत्यभिमानस्य ध्यानम् ।।६१।। ___ अवेरमणंझाणे [अविरमण-ध्यानं] न विरमणमविरमणं तस्य ध्यानं मा भूत् पुत्रयोविरमण इति बुद्धिमङ्गीकृत्य पितरौ सुतौ प्राहतुः-एते साधवो मांसाशिनो राक्षसा इत्यतस्तत्पावे न गन्तव्यमिति तनयविहित-प्रतारणयो गुपुरोहितयशयोरिव यद्वा देवेन प्रतिबोध्यमानस्यापि मुहुर्मुहुविरतिं त्यजतो मेतार्यस्येव ।।२।। __ अमुत्तिमरणंझाणे [अमुक्तिमरण-ध्यानं] मुक्तिर्मोक्षगतिः न मुक्तिरमुक्तिः संसारसुखाभिलाष इत्यर्थः तेन मरणं तस्य ध्यानं मुक्तिविघ्नकरमेतन्निदानं मा कुरु इति पुनः पुनश्चित्रेण भ्रातृसाधुना निवार्यमाणस्यापि एतां चक्रिविभूतिमनुभूय मुक्तिमपि न स्पृहयेऽहमित्याद्यशुभभावेन निदानं कुर्वतः संभूतमुनेरिव ।।३।। ध्यानस्वरूपाणि निशम्य मिथ्यादुष्कृत्ययोग्यानि विवेकवद्भिः । अनेककर्मप्रचयात्मकानि, हेयानि सर्वाणि विचारमार्गे ।।१।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy