SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२४ आतुरप्रत्याख्यानप्रकीर्णकम् परुषमतिनिष्ठुरं कर्म तस्य ध्यानं परुषध्यानं ब्रह्मदत्तं प्रति चुलन्या इव युगबाहुं प्रति मणिरथस्येव वा ।।४४।। भयं मोहान्तर्गता नोकषायरूपा प्रकृतिः कृतगजसुकुमालोपसर्गस्य सोमिलश्वशुरस्येव ।।४५।। रूप्यते निरीक्ष्यत आदर्शादाविति रूपं तस्य ध्यानं रूपध्यानं, तञ्च द्विधा स्वरूपध्यानं पररूपध्यानं च तत्र मदीयं रूपं शोभनमिति स्वरूपध्यानं सनत्कुमारस्येव, पररूपध्यानं तु श्रेणिकचित्रलिखितफलकं वीक्षमाणयोः सुज्येष्ठाचेलणयोरिव ।।४६।। आत्मप्रशंसाध्यानं शकटालमन्त्रितो निजकृतकाव्यप्रशंसामभिलषतो वररुचेरिव स्वविज्ञानं कोशाया दर्शयतो रथकारस्येव वा ।।४७।। परनिन्दाध्यानं कूरकडुकं प्रति चतुर्णां क्षपकाणामिव ॥४८॥ परस्य गर्दा परसमक्षं दोषोद्घट्टनं तस्या ध्यानं परगर्हाध्यानं सङ्घसमक्षं दुर्बलिकापुष्पमित्रं गर्हमाणस्य गोष्ठामाहिलस्येव ।।४९।। परिग्रहो धनधान्यादिरूपस्तस्य ध्यानं गतविभवस्य विभावार्थे वा चारुदत्तस्येव मुनिपतिमुनिरोधककुंचिकस्येव वा ।।५०॥ परस्यासद्भूतदोषाविष्करणं परपरिवादस्तस्य ध्यानं परपरिवादध्यानं सुभद्रां प्रति श्वश्रूननान्दृणामिव ।।५१।। परस्यानपराधिनोऽपि आत्मकृतदोषचटापनं परदूषणं तस्य ध्यानं परदूषणध्यानं भद्रकवृषभं प्रति मत्पतिरनेन हत इतिस्वदोषमपलपन्त्या जिनदासभा या इव ।।५२।। आरम्भः परोपद्रवः तस्य ध्यानमारम्भध्यानं कुरुडोत्कुरुडयोरिव द्वैपायनस्येव वा ।।५३।। संरम्भो विषयादिषु तीव्राभिलाषस्तस्य ध्यानं संरम्भध्यानं जनन्युपरोधतो व्रतं पालयतोऽपि विषयाभिलाषिणः क्षुल्लककुमारस्येव ।।५४।। पापं परस्त्रीसेवादि तस्यानुमोदनं भव्यमनेन कृतमिति वदनं तस्य ध्यानं पापध्यानं धन्योऽयं भोगी भ्रमरभूप इत्याद्यनुमोदकजनानामिव ।।५५।। अधिकरणं पापोत्पत्तिहेतुस्थानं तस्य ध्यानमधिकरणध्यानं वापीध्यानतत्परस्य नन्दमणिकारस्येव ।।५६।। असमाधिना एष म्रियतामिति चिन्तनमसमाधिमरणध्यानं स्कन्दकाचार्य प्रति क्षुल्लकं प्रथमं यन्त्रे पीलयतोऽभव्यपालकस्येव ।।५७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy