________________
परिशिष्टम्-२ त्रिषष्टिदुर्ध्यानम्
३२३
निर्गतं युद्धं प्राणप्रहाणरूपमधमं यस्मात्तत् नियुद्धं यष्टिमुष्टादिभिरेव जयकारकं तस्य ध्यानं नियुद्धध्यानं बाहुबलिभरतयोरिव ।।२९।। ___ सङ्गः परित्यक्तेष्वपि पुनः संयोगाभिलाषः तस्य ध्यानं सङ्गध्यानं राजीमत्यां रथनेमेरिव नागिलायां भवदेवस्येव वा ।।३०।
सङ्ग्रहोऽत्यन्तमतृप्त्या धनोपार्जनं तस्य ध्यानं सङ्ग्रहध्यानं मम्मणस्येव ।।३१।। व्यवहारः स्वकार्यनिर्णयार्थं राजकुलादौ न्यायकारणं तस्य ध्यानं व्यवहारध्यानं स्वपुत्रनिर्णयार्थं द्वयोः सपत्न्योरिव ।।३२।।
क्रयणं क्रयो लाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणं, विक्रयणं विक्रयो बहुना मूल्येनाल्पमूल्यवस्तुदानं, क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर्ध्यानं क्रयविक्रयध्यानं कर्पासविक्रायकवणिज इव ।।३३।।
अनर्थदण्डो निःप्रयोजनं हिंसादिकरणं तस्य ध्यानमनर्थदण्डध्यानं दुर्दान्तमत्ततया द्वैपायनं स्खलीकुर्वतां शाम्बादीनामिव ।।३४।।
आभोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानमाभोगध्यानं विप्रनेत्राभिप्रायेण फलान्यपि मर्दयतो ब्रह्मदत्तस्येव ।।३५।।
अनाभोगोऽत्यन्तविस्मृतिस्तस्य ध्यानमनाभोगध्यानं विस्मृतचारित्रस्य प्रसन्नचन्द्रस्येव ।।३६।। अणं ऋणं तेनाविलस्तस्य ध्यानं ऋणध्यानं तैलकर्षलस्त्र्यायतिभगिन्या इव ।।३७।।
वैरं मातापित्रादिवधोत्थं राज्यापहारादिभवं वा तस्य ध्यानं वैरध्यानं परशुरामसुभूमादीनामिव सुदर्शनं प्रति अभयादेव्या व्यन्तरीभूताया इव ।।३८।।
वितर्क ऊहः कथं राज्यादि ग्रहीष्ये इति चिन्ता तस्य ध्यानं वितर्कध्यानं नन्दराज्यं जिघृक्षोश्चाणाक्यस्येव ।।३९॥ हिंसा महिषादिजीवमारणं तस्य ध्यानं हिंसाध्यानं कूपक्षिप्तकालशौकरिकस्येव ।।४०।। हासो हास्यं तस्य ध्यानं हासध्यानं चण्डरुद्राचार्यशिष्यस्येव मित्रसहितस्य ।।४१।। प्रहास उपहासो निन्दास्तुतिरूपस्तस्य ध्यानं प्रहासध्यानं 'वंदामि ते नेमित्तियखवगा' इति वार्तिकमुनिं प्रति वदतश्चण्डप्रद्योतस्येव ।।४२।।
प्रकृष्टो द्वेषः प्रद्वेषस्तस्य ध्यानं प्रद्वेषध्यानं मरुभूतिं प्रति कमठस्येव श्रीवीरं प्रति कर्णयोः काष्ठशलाकाद्वयं क्षिपतो गोपालस्येव वा ।।४३।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org