SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२२ आतुरप्रत्याख्यानप्रकीर्णकम् शङ्कनं शङ्का संशयकरणं तस्य ध्यानं शङ्काध्यानम्, अव्यक्तवादिनामाषाढाचार्यशिष्याणामिव ।।१४।। अन्यान्यदर्शनाग्रहः काङ्क्षा तद्ध्यानं काङ्क्षाध्यानम् ‘कपिला इत्थं पि इहयं पि' इतिवदतो मरिचेरिव ।।१५।। - गृद्धिः आहारादिष्वत्यन्तमाकाङ्क्षा तस्या ध्यानं गृद्धिध्यानं मथुरामङ्गुसूरेरिव कण्डरिकराजस्य मुक्तव्रतस्येव वा ॥१६॥ आशा परसत्कवस्तुप्राप्त्यभिलाषरूपा तस्या ध्यानमाशाध्यानं निघृणब्राह्मणपाथेयं प्रति निःपाथेयस्य मूलदेवस्येव ।।१७।। तृषा परीषहोदयजन्यः पीडाविशेषः तया यद् ध्यानं तृषाध्यानं तृषार्तस्य मार्गे गच्छतो जनकसाधुसहितस्य क्षुल्लकस्येव ।।१८।। क्षुधया यद्ध्यानं क्षुधाध्यानं राजगृहोद्यानागतलोकान् प्रति हनना योत्थितस्य द्रमकस्येव ।।१९।। अल्पकालगम्योऽध्वा पन्थाः तस्य ध्यानं पथिध्यानं पोतनपुरमार्गं गवेषयतो वल्कलचीरिण इव ।।२०।। विषममार्गः महान् पन्थाः तस्य ध्यानं विषममार्गध्यानं सनत्कुमारं गवेषयतो महेन्द्रसिंहस्येव, ब्रह्मदत्तगवेषकस्य वा वरधनस्येव ।।२१।। निद्रापरतन्त्रस्य ध्यानं निद्राध्यानं स्त्यानद्धिनिद्रया १-महिषमांसभक्षकः २-हस्तिदन्तोत्पाटक ३-मोदकाभिलाषुक साधूनामिव ।।२२।। निदानं स्वर्गमादिऋद्धिप्रार्थनं भवान्तरविषयं नवप्रकारं तस्य ध्यानं निदानध्यानं नन्दिषेणसंभूतिद्रौपद्यादीनामिव ।।२३।। स्नेहो मोहोदयजः प्रीतिविशेषः पुत्रादिष्वत्यन्तानुरागः मरुदेवीसुनन्दाऽर्हनकमात्रादीनामिव ।।२४ ।। कामो विषयाभिलाषस्तस्य ध्यानं कामध्यानं हासाप्रहासाप्रलोभितस्य कुमारनन्दिस्वर्णकारस्येव रावणस्येव वा ।।२५।। अपमानतः परगुणप्रशंसायामी(ई)ातो वा चित्तस्य कलुषभावः कालुष्यं मलीनता तस्य ध्यानं कालुष्यध्यानं बाहुसुबाहुप्रशंसामसहमानयोः पीठमहापीठयोरिव सिंहगुहावासिसाधोरिव वा ।।२६।। कलहो वाचिका राटिः तस्य ध्यानं रुक्मिणीसत्यभामयोः व्यतिकरे कमलामेलाज्ञाते नारदस्येव ॥२७॥ युद्धं वैरिप्राणव्यपरोपणोऽध्यवसायस्तस्य ध्यानं बन्धुहल्लविहल्लविनाशे चेटकेन सह कोणिकस्येव ।।२८।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy