SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - २ श्रीउपदेशप्रासादान्तर्गतत्रिषष्टिदुर्थ्यानम् त्रिषष्टिर्थ्यानस्थानानि, उत्पन्नान्यार्त्तरौद्रतः । तत्स्वरूपं लिखामि, द्वितीयप्रकीर्णसूत्रतः ॥ १॥ स्पष्टः । आउरपच्चखाणपयन्नासूत्रपाठस्तु 'अन्नाणंझाणे' इत्यादिज्ञेयः । तथाहि अज्ञानध्यानम्-अज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासाभावात् एवं मनसि चिन्तनं, पञ्चमीदृष्टान्तोक्तवसुदेवाचार्यस्येवेति न ध्येयम् ।।१।। अनाचारो दुष्टाचारः तद्ध्यानं वल्लरदावं ध्यायतः कौंकणसाधोरिव शिष्यदेवानामनागमनादुत्प्रव्रजितुकामस्याषाढसूरेरिव वा ।।२।। कुदर्शनं बौद्धादिरूपं तस्य ध्यानं सुराष्ट्रश्राद्धस्येव ॥ ३ ॥ क्रोधध्यानं कूलवालकगोशालकपालकनमुचिशिवभूतिप्रभृतीनामिव ।।४।। मानध्यानं बाहुबलिसुभूमपरशुरामाभिनिवेशागतसङ्गमादीनामिव ।।५।। परविप्रतारणरूपा माया तस्या ध्यानं मायाध्यानम् आषाढभूतिसाधोरिव ||६|| लोभध्यानं सिंहकेसरिसाधोरिव ।।७।। रागोऽभिष्वङ्गमात्रं स च कामरागस्नेहरागदृष्टिरागभेदात्त्रिधा, तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव, स्नेहरागो दामन्नकश्वशुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटात्, दृष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति 'आसुरे रमसे' इत्यादि भणतः कपिलस्येव, तस्य ध्यानं न कार्यम् ।।८।। अप्रीतिमात्रं परद्रोहाध्यवसायो वा द्वेषस्तस्य ध्यानं मधुपिङ्गपिप्पलादयोरिव, हरिवंशोत्पत्तौ वीरकदेवस्येव वा ।।९।। मोहनं मोहः तस्य ध्यानं, मोहाद्विष्णुतनुं वहतो बलभद्रस्येव ।।१०।। इच्छा संभाव्यमानलाभस्यार्थस्याभिलाषातिरेकः तस्या ध्यानमिच्छाध्यानं, माषद्वयार्थिनः कोटिसुवर्णलाभेऽपि प्रवर्धमानलोभस्य कपिलस्येव । । ११ । । मिथ्या विपर्यस्तदृष्टित्वं तद्ध्यानं मिथ्याध्यानं जमालिगोविंदप्रभृतीनामिव । । १२ ।। मूच्छाऽत्यर्थं पूर्वप्राप्तस्य राज्यादेरभिष्वङ्गः स्वपुत्राणां जातमात्राणां हिंसकस्य कनकध्वजस्येव ।।१३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy