________________
आतुरप्रत्याख्यानप्रकीर्णकम्
इति व्यज्ञपयंस्तेऽपि, गत्वा श्री आर्यरक्षितान् । लोकान् व्युद्ग्राहयत्युच्चैर्मथुरापुरि नास्तिकः ||८|| तत्तं जेतुं स्वयं पूज्या, नगरीं पावयन्तु ताम् । प्रेषयन्त्वथवा कञ्चिद्विनेयं वादिजित्वरम् ।।९।। ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः । वादलब्धिधरं गोष्ठामाहिलं प्रेषयंस्तदा ।। १० ।। सोऽपि तत्रागमत्सत्राऽऽह्वातुमागतसाधुभिः । वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः ।। ११ ।। जितकाशी सूरिपार्श्वे, यियासुरपि स व्रती । सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः ।। १२ ।। इतश्च विश्ववन्द्याः श्रीआर्यरक्षितसूरयः । निजायुः प्रान्तमासन्नंविज्ञायैवमचिन्तयन् ।। १३ ।। योग्यस्यैव विनेयस्य, प्रदेया गणधारिता । अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् ।।१४।। यदाहुः- “वूढो गणहरसद्दो, गोअमाईहिं धीरपुरिसेहिं ।
जो तं ठवेइ अपत्ते, जाणंतो सो महापावो ! ।। १५ ।। "
२५६
तदाचार्यपदं देयं, योग्यस्यैव विवेकिना । अयोग्यस्तु न तस्यार्हः, पायसस्येव वायसः ।।१६।। योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः । अस्ति दुर्बलिकापुष्पमित्रनामा महाशयः ।। १७ ।। सर्वेषामात्तदीक्षाणां मद्बन्धूनां तु सर्वथा । श्रीफल्गुरक्षितो गोष्ठामाहिलो वाऽस्ति सम्मतः । । १८ ।। कांक्षन्ति गणधारित्वं, स्वजनत्वाद्धि ते तयोः । सम्यग्जानन्ति न त्वेषां त्रयाणां गौणमन्तरम् ।।१९।। ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे । शिष्यं दुर्बलिकापुष्पमित्राख्यं स्थापयाम्यहम् ।।२०।। विमृश्येत्यखिलान् साधून्, समाहूय मुनीश्वरः । वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवोचत ।। २१ । । वल्लकुम्भाद्यथा रिक्तिकर्तुं नीचैर्मुखीकृतात् । निष्पावा निखिला मध्यगता निर्यान्ति सत्वरम् ।।२२।। एवं दुर्बलिकापुष्पमित्रनाम्नो महामतेः । जातोऽस्मि श्रुतसूत्रार्थदाने वल्लघटोपमः ।। २३ ।। अधोमुखीकृतात्तैलघटात्तैलं यथा द्रुतम् । निर्याति भूरि किञ्चित्तु तिष्ठत्यपि घटाश्रितम् ।।२४।। फल्गुरक्षितसंज्ञस्य, श्रुताम्नायार्पणे तथा । जातोऽस्म्यहं तैलकुम्भसन्निभो भो महर्षयः ।। २५ ।। अवाङ्मुखीकृतादाज्यकुम्भात्तु स्तोकमेव हि । घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ।। २६ ।। एवं जातोऽस्म्यहं गोष्ठामाहिलाभिधसन्मुनेः । श्रीमत्सिद्धान्तसूत्रार्थदाने घृतघटोपमः ।।२७।। तदयं श्रुतपाथोधिपारदृश्वा गुणोदधिः । अस्तुदुर्बलिकापुष्पमित्रर्षिर्वो गणाधिपः ।। २८ ।। इयत्कालं मदादेशो, युष्माभिर्मानितो यथा । अतः परं तथा मान्यं वचोऽमुष्य गणेशितुः ।। २९ ।। अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् । अयं तु स्तोकमप्यागो, न कस्यापि सहिष्यते । । ३० ।। इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा । ततो दुर्बलिकापुष्पमित्रमित्थं जगौ गुरुः ।। ३१ । ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org