________________
२५०
आतुरप्रत्याख्यानप्रकीर्णकम्
भृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा । स्वामिज्ञाते प्रतीकारो युज्यते न विचारणा ।।६६।। कृतौर्ध्वदेहिकं नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति ।।६७।। अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूलभद्राभिधानोऽस्ति पितृतुल्यो ममाग्रजः ।।६८।। पितृप्रसादानिर्बाध कोशायास्तु निकेतने । भोगानुपभुञ्जानस्य तस्याब्दा द्वादशागमन् ।।६९ ।। आहूयाथ स्थूलभद्रस्तमर्थं भूभुजोदितः । पर्यालोच्यामुमर्थं तु करिष्यामीत्यभाषत ।।७०।। अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममशेति चेतसा ।।७१।। शयनं भोजनं स्नानमन्येऽपि सुखहेतवः । कालेऽपि नानुभूयन्ते रोरैरिव नियोगिभिः ।।७२।। नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्भेऽम्भसामिव ।।७३ ।। त्यक्त्वा सर्वमपि स्वार्थं राजार्थं कुर्वतामपि । उपद्रवन्ति पिशुना उद्वद्धानामिव द्विकाः ।।७४ ।। यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे तद्वदात्मार्थे यत्यते किं न धीमता ।।७५ ।। विचिन्त्यैवं व्यधात्केशोत्पाटनं पञ्चमुष्टिभिः । रत्नकम्बलदशाभी रजोहरणमप्यथ ।।७६।। ततश्च स महाभागो गत्वा सदसि पार्थिवम् । आलोचितमिदं धर्मलाभः स्तादित्यवोचत ।।७७ ।। ततः स राजसदनाद् गुहाया इव केसरी । निःससार महासार; संसारकरिरोषणः ।।७८।। किमेष कपटं कृत्वा यायी वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापो गवाक्षेण निरैक्षत ।।७९।। प्रदेशे शवदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः ।।८० ।। भगवान्वीतरागोऽसावस्मिन्धिग्मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैर्नन्दस्तमभिनन्दयन् ।।८१।। स्थूलभद्रोऽपि गत्वा श्रीसम्भूतिविजयान्तिके दीक्षां सामायिकोच्चारपूर्विकां प्रत्यपद्यत ।।८२।। गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारे सहिते न्यधात् ।।८३।। चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटाल: प्रकृष्टनयपाटवात् ।।८४।। स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाद् भ्रातुस्तत्प्रियापि कुलीनैर्बहुमन्यते ।।८५ ।। स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य सारुदत् । इष्टे दृष्टे हि दुःखार्ता न दुःखं धर्तुमीशते ।।८६।। ततस्तां श्रीयकोऽवोचदायें ! किं कुर्महे वयम् । असौ वररुचिः पापोऽघातयज्जनकं हि नः ।।८७ ।। अकाण्डोत्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलभद्रवियोगं च भवत्या अकरोदयम् ।।८८ ।। त्वज्जाम्यामुपकोशायां यावद्रक्तोऽस्त्यसौ खलः । तावत्प्रतिक्रियां काञ्चिद्विचिन्तय मनस्विनि ! ।।८९।। तदादिशोपकोशां यत्प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ।।९० ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org