SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः २४९ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी । न्यासीकृतमपि द्रव्यं गवेषयसि यन्मुहुः ।।४१।। उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् । सोऽर्पयामास दीनारग्रन्थिं वररुचेः करे ।।४२।। दीनारग्रन्थिना तेनोत्सर्पिहृद्ग्रन्थिनेव सः । दशामासादयामास मरणादपि दुःसहाम् ।।४३।। विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृह्णातीत्यूचे सचिवो नृपम् ।।४४ ।। साधु जातमिदं छ त्यालपन्मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागान्महीपतिः ।।४५।। अमर्षणो वररुचिः प्रतीकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चेटिकादिकम् ।।४६।। तस्याथ कथयामास काचित्सचिवचेट्यदः । भूपतिः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवेश्मनि ।।४७ ।। सज्ज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ।।४८।। समासाद्य छलज्ञस्तच्छलं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ।।४९।। न वेत्ति राजा यदसौ शकटाल: करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ।।५० ।। स्थाने स्थाने पठन्ति स्म डिम्भा एवं दिने दिने । जनश्रुत्या तदश्रौषीदिति चाचिन्तयन्नृपः ।।५१ ।। बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । उत्पातिकी च या भाषा सा भवत्यन्यथा न हि ।।५२ ।। तत्प्रत्ययार्थं राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ।।५३।। ततश्च सेवावसरे मन्त्रिणः समुपेयुषः । प्रणामं कुर्वतो राजा कोपात्तस्थौ पराङ्मुखः ।।५४ ।। तद्भावज्ञोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापितः केनाप्यभक्तो विद्विषन्निव ।।५५ ।। असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते वत्स ! कुरुषे यद्यादेशमिमं मम ।।५६।। नमयामि यदा राजे शिरश्छिन्द्यास्तदासिना । अभक्तः स्वामिनो वध्यः पितापीति वदेस्ततः ।।५७ ।। यियासौ मयि जरसाप्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्भो भविष्यसि चिरं ततः ।।५८ ।। श्रीयकोऽपि रुदन्नेवमवदद् गद्गदस्वरम् । तात ! घोरमिदं कर्म श्वपचोऽपि करोति किम् ? ।।५९।। अमात्योऽप्यब्रवीदेवमेवं कुर्वन्विचारणाम् । मनोरथान्पूरयसि वैरिणामेव केवलम् ।।६० ।। राजा यम इवोद्दण्ड; सकुटुम्बं न हन्ति माम् । यावत्तावन्ममैकस्य क्षयाद्रक्ष कुटुम्बकम् ।।६१।। मखे विषं तालपटं न्यस्य नस्यामि भूपतिम् । शिरः परासोमें छिन्द्याः पितृहत्या न ते ततः ।।६२।। पित्रैवं बोधितस्तत्स प्रतिपेदे चकार च । शुभोदर्काय धीमन्तः कुर्वन्त्यापातदारुणम् ।।६३।। भवता किमिदं वत्स ! विहितं कर्म दुष्करम् । ससम्भ्रममिति प्रोक्तो नृपेण श्रीयकोऽवदत् ।।६४ ।। यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा । भर्तृचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ।।६५ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy