SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४८ आतुरप्रत्याख्यानप्रकीर्णकम् तयोक्तः साग्रहं मन्त्री तत्तथा प्रत्यपद्यत । अन्धस्त्रीबालमूर्खाणामाग्रहो बलवान्खलु ।।१७।। राज्ञः पुरस्तात्पठतः काव्यं वररुचेस्ततः । अहो सुभाषितमिति वर्णयामास मन्त्रिराट् ।।१८।। दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ।।१९।। दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद्दीयत इति भूपं मन्त्री व्यजिज्ञपत् ।।२०।। अथोचे नृपतिर्मन्त्रिन् ! दद्मोऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा ततः ।।२१।। मन्त्र्यप्यूचे मया देव ! प्रशंसा नास्य निर्मिता । काव्यानि परकीयाणि प्राशंसिषमहं तदा ।।२२।। पुरो नः परकाव्यानि स्वकीकृत्य पठत्ययम् । किमेतत्सत्यभावेनेत्यभाषत नृपस्ततः ।।२३।। एतत्पठितकाव्यानि पठन्तीर्बालिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ।।२४ ।। यक्षा यक्षदत्ता भूता भूतदत्तैणिका तथा । वेणा रेणेति सप्तासन्प्राज्ञाः पुत्र्यस्तु मन्त्रिणः ।।२५।। गृह्णाति ज्यायसी तासां सकृदुक्तं तथेतराः । द्वित्र्यादिवारक्रमतो गृह्णन्ति स्म यथाक्रमम् ।।२६।। राज्ञः समीपं सचिवो द्वितीयेऽह्नि निनाय ताः । तिरस्करिण्यन्तरिताः समुपावेशयच्च सः ।।२७।। अष्टोत्तरशतं श्लोकान्स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्तास्तु यथाज्येष्ठमनूचिरे ।।२८।। ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ।।२९।। ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले व्यधात् । तन्मध्ये वस्त्रवद्धं च दीनारशतमष्टयुक् ।।३० ।। प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंहिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतंस्ततः ।।३१।। स एवं विदधे नित्यं जनस्तेन विसिष्मिये । तच्च श्रुत्वा जनश्रुत्या राजाशंसत मन्त्रिणे ।।३२।। इदं यद्यस्ति सत्यं तत्प्रात:क्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ।।३३।। दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात्पक्षीवानुपलक्षितः ।।३४ ।। तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य ययौ गृहे ।।३५ ।। तज्जीवितमिवादाय दीनारग्रन्थिमादरात् । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे ।।३६ ।। अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाद्वररुचिस्तदा ।।३७ ।। द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः ।।३८ ।। स्तुत्यन्तेऽचालयद्यन्त्रं यदा वररुचिः परम् । दीनारग्रन्थिरुत्पत्य नापतत्पाणिकोटरे ।।३९।। ग्रन्थिं गवेषयामास पाणिना तज्जले ततः । सोऽस्थादपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनभाक् ।।४० ।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy