________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२४७
स्थित आसीत्, तन्मूलं गतानि कथञ्चित्तानि, तेनोक्तं-मा भैषुरिति, इतरेणापि श्रुतं तद्वाक्यं, कथितं राज्ञः, गृहीत्वा तदर्थं जातावष्टम्भेन दत्वाऽवस्कन्दं गृहीतश्चण्डप्रद्योतः, तेन आनीत स्वगेहमुक्तश्च किमिदानीं भवतः क्रियते ? स प्राह-यद्भवद्गृहमागतानां युज्यते तत्कुरु ? ततो वशीकृतेषु नीचेषु कृपावन्तः सन्त इत्यालोच्य दत्ता अङ्गारवती तस्मै । स तया सह भ्रमन्नगरेऽल्पसामग्रीकं तदवलोक्य तां पृष्टवान् कथमहं गृहीत इति, सा प्राह-निमित्तबलेन, स प्राह-कथं ?, ततः कथितस्तया मुनिवृत्तान्तः । अन्यदा स वारत्तकमुनिर्दर्शितस्तया तस्य, ततोऽसौ लोकसमक्षं हासगर्भं तमब्रवीत् नैमित्तकक्षपकः ! नमस्ते । ततः क्व मया निमित्तं प्रयुक्तमित्युक्तो मुनिर्जन्मप्रभृति स्वापराधेषु आः ! ज्ञातं दारक ! मा भीर्दानमिति । ततो जातपश्चात्तापो दत्वालोचनां प्रतिकान्त इति । ४७. आत्मप्रशंसाध्याने श्रीपरिशिष्टपर्वोक्तः शकटालमन्त्रिदृष्टान्तः ।
कल्पकः पुनरुत्पन्नानेकपुत्रो धियांनिधिः । सुचिरं नन्दराजस्य मुद्राव्यापारमन्वशात् ।।१।। नन्दस्य वंशे कालेन नन्दाः सप्ताभवन्नृपाः । तेषां च मन्त्रिणोऽभूवन्भूयांसः कल्पकान्वयाः ।।२।। ततस्त्रिखण्डपृथिवीपतिः पतिरिव श्रियः । समुत्खातद्विषत्कन्दो नन्दोऽभूनवमो नृपः ।।३।। विशङ्कटः श्रियां वासोऽसङ्कटः शकटो धियाम् । शकटाल इति तस्य मन्त्र्यभूत्कल्पकान्वयः ।।४।। तस्य लक्ष्मीवती नाम लक्ष्मीरिव वपुष्मती । सधर्मचारिण्यभवच्छीलालङ्कारधारिणी ।।५।। तयोश्च ज्येष्ठतनयो विनयालङ्कृतोऽभवत् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः ।।६।। भक्तिनिष्ठः कनिष्ठोऽभूच्छ्रीयको नन्दनस्तयोः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः ।।७।। पुरेऽभूत्तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगच्चेता बभूव जीवनौषधिः ।।८।। भुञ्जानो विविधान्भोगान्स्थूलभद्रो दिवानिशम् । उवास वसथे तस्या द्वादशाब्दानि तन्मनाः ।।९।। श्रीयकस्त्वङ्गरक्षोऽभूद्भरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः ।।१०।। तत्र चासीद्वररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ।।११।। स्वयकृतैर्नवनवैरष्टोत्तरशतेन सः । वृत्तैः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ।।१२।। मिथ्यादृगिति तं मन्त्री प्रशशंस न जातुचित् । लुष्टोऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः ।।१३।। ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । आराधयितुमारेभे गृहिणीं तस्य मन्त्रिणः ।।१४।। सन्तुष्टया तयान्येधुः कार्यं पृष्टोऽब्रवीदिदम् । राज्ञः पुरस्तान्मे काव्यं तव भर्ता प्रशंसतु ।।१५।। तया तदुपरोधेन तद्विज्ञप्तोऽवदत्पतिः । मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः ।।१६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org