________________
२४६
आतुरप्रत्याख्यानप्रकीर्णकम
४५. भयध्याने श्रीउपदेशमालाहेयोपादेयावृत्तौ सोमिलप्रबन्धः । __ द्वारवत्यां कृष्णस्य मातुर्देवक्या निजतनयपीयमानस्तनी काञ्चिन्नारी उपलभ्य सञ्जातमौत्सुक्यं, यदुत धन्यास्ताः एव प्रमदा यासां दुग्धलुब्धमुग्धस्मेरमुखैर्वल्पच्छिरोधरैस्तनयैः स्तनौ पीयते, मम पुनर्मन्दभाग्याया नैतत्सम्पन्नमिति सविषादा च दृष्टा कृष्णेन, सप्रणिपत्याह-अम्ब ! किमेतत् ? ततः कथितं तया निजाकूतम् । पूरयामि ते मनोरथानित्यभिधायाराधितस्तेन देवः । देवः प्राह- भविष्यति तनये दिवश्च्युतः, केवलं जन्मान्तराभ्यस्तकुशलकर्मत्वान्न चिरं गृहे स्थास्यतीति । तदाकर्ण्य कथितं कृष्णेन देवक्याः प्रतिपन्नम् तया । ततो गजस्वप्नसूचित आविर्भूतो गर्भः, जातः क्रमेण दारकः, प्रतिष्ठितं नाम गजसुकुमार इति । प्रासो यौवनमुद्वाहितः सोमिलब्राह्मणसुतां माता-पितृभ्यां, स पुनरिन्द्रजालमिव जगदसारं मन्यमानो विडम्बनाप्रायं वैषयिकं सुखं चिन्तयन् कारागृहमिव गृहं तदनुरोधात् तावन्तं कालमधिवसति स्म । पश्चानिवेद्य स्वाभिप्रायं तयोः सम्भाव्य च नानोपायैः विमुक्तस्ताभ्यां कृष्णेन च भगवदरिष्टनेमिपादमूले निष्क्रान्तोऽभ्यस्तद्विविधशिक्षोऽन्यदा द्वारवत्यामेव स्मशाने स्थितः कायोत्सर्गेण कथञ्चित्तद्देशमागतेन द्दष्टः सोमिलेन । मद्दुहितरं परिणीय त्यक्तवानयं दुष्टात्मेति समुल्लसितोऽस्य क्रोधः ।
ततः कृत्वा मृत्तिकया शिरसो वेष्टनं, प्रक्षिप्य तत्र ज्वलिताङ्गारानपक्रान्तोऽसावितरस्यापि अहो ! मन्निमित्तमयं वराकः कश्चित्प्रपतिष्यति घोरे नरके' इति भावनासमीरणसन्धुक्षिते ज्वलति ज्वलने तत्सहाय इव प्रबुद्धः शुक्लध्यानज्वलनः, दग्धं इतरेण शरीरमिव घातिकर्मचतुष्टयं, समुत्पन्नं केवलज्ञानम्, अध्यासिता शैलेशी, समाप्तमायुष्कं, सम्प्राप्तः परमपदमिति । द्वितीयदिने समागतो विष्णुर्भगवद्वन्द्वनार्थं, वन्दितः सह मुनिभिर्भगवान् । पश्चात् क्व गजसुकुमार इति तस्य वदतो भगवतोक्तं साधितं तेन स्वकार्यम् । विष्णुराह- कथं ? ततः कथितो भगवता तवृत्तान्तः, विष्णुराह केनेदमनुष्ठितं ? भगवान् आह- 'यस्य त्वां दृष्ट्वा शिरो विदलिष्यति', प्रविशता दृष्टो भयेन प्रपलायमानः सोमिलः । कृष्णदर्शनादाविर्भवद्भयोत्कर्षस्य दीर्णं तस्य मस्तकमिति ।। २८,४२,४६. युद्धध्याने, प्रहासध्याने, रूपध्याने च श्रीउपदेशमालाटीकागतं चण्डप्रद्योतस्य कथानकम् ।।
सुंसुमारनगरे धुंधुमारराजसुतया अङ्गारवत्या वादे तिरस्कृतनिष्कासितया परिवाजिकया दर्शिततद्रूपाऽऽक्षिप्तचित्तेन दूतप्रेषणाऽदानाक्रुद्धेनोज्जयिन्या आगत्य चण्डप्रद्योतराजेन रुद्धं तन्नगरं, विषण्णेन राजा किमत्र भविष्यतीति पृष्टो नैमित्तिकः, स प्राह-निरूप्य कथयामि, गतो निमित्तग्रहणार्थं, त्रासितानि तेन रममाणानि डिम्भरूपाणि, इतश्च वारत्तकनामा मुनिस्तत्रैव नागगृहे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org