SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः २४१ प्रणष्टमायामिथ्यादिशल्योऽपि श्रुतिशल्यभाग् । अकम्पितः शुभध्यानादपापां मध्यमां ययौ ।।९।। पारणार्थं प्रभुस्तत्र सिद्धार्थवणिजो गृहे । जगाम भगवांस्तेन भक्त्या न प्रतिलाभितः ।।१०।। पूर्वायातस्तत्र वैद्यः सिद्धार्थस्य सुहृत्प्रियः । खरकाख्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरब्रवीदिदम् ।।११।। अहो भगवतो मूर्तिः संपूर्णा सर्वलक्षणैः । परं शल्यवती चेयं म्लानत्वेनोपलक्ष्यते ।।१२।। सिद्धार्थः संभ्रामादूचे यद्येवं तन्निरूपय । सम्यग्भगवतो देहे क्व शल्यं हन्त तिष्ठति ? ।।१३।। वैद्योऽपि निपुणं पश्यन्नखिलं स्वामिनो वपुः । ददर्श कर्णयोः कीलौ सिद्धार्थस्याप्यदर्शयत् ।।१४ ।। सिद्धार्थोऽथावदत् केनाप्यपवादादभीरुणा । नरकादप्यभीतेन चक्रेऽदः कर्म दारुणम् ।।१५।। कृतं वा तस्य पापस्य कथयाऽप्यनया सखे ! नाथस्य शल्योद्धाराय प्रयतस्व महामते ! ।।१६।। स्वामिनः कर्णयोः शल्ये पीडा तु महती मम । विलम्बं न सहेऽत्रार्थे सर्वस्वमपि यातु मे ।।१७।। कर्णाभ्यां विश्वनाथस्योद्धृतयोरिह शल्ययोः । मन्ये भवमहाम्भोघेरावामेव समुद्धृतौ ।।१८ ।। वैद्योऽप्युवाच नाथोऽयं विश्वत्राणक्षयक्षमः । कर्मक्षयायोपैक्षिष्ट तं नाऽशक्त्याऽपकारिणम् ।।१९।। कथं चिकित्सनीयोऽयं निरपेक्षो वपुष्यपि । यः कर्मनिर्जरालुब्धो वेदनां साधु मन्यते ।।२०।। सिद्धार्थोऽप्यवदत् केयं वाचोयुक्तिस्तवाधुना । न कालो वचसामेषां चिकित्स्यो भगवान् खलु ।।२१।। तयोर्बुवाणयोरेवं निरपेक्षः प्रभुर्ययौ । तस्थौ च बहिरुद्याने शुभध्यानपरायणः ।।२२।। सिद्धार्थखरकौ तौ च गृहीत्वा भेषजादिकम् । तत्रोद्याने त्वरावन्तौ भगवन्तमुपेयतुः ।।२३।। तैलद्रोण्यां विनिवेश्य तैलेनाभ्यज्य च प्रभुम् । संवाहकैर्बलीयोभिस्तावमर्दयतामथ ।।२४ ।। श्लेथेषु मर्दनात्संधिष्वोजस्विपुरुषैः प्रभोः । संदंशाभ्यामकृष्येतां युगपत्कर्णकीलकौ ।।२५।। कीलद्वयं सरुधिरं निर्ययौ कर्णरन्ध्रयोः । अवशिष्टं वेदनीयं कर्म साक्षादिव प्रभोः ।।२६।। तथाऽभूद्वेदना कीलकर्षणेन यथा प्रभुः । ररास भैरवारावं वज्राहत इवाचलः ।।२७ ।। नाऽस्फुटत् स्वामिमाहात्म्यात्तेन नादेन मेदिनी । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः ।।२८ ।। संरोहण्या रोहयित्वा की नाथं प्रणम्य च । क्षमयित्वा च सिद्धार्थखरको गृहमीयतुः ।।२९।। वेदनामपि तौ भर्तुः कृतवन्तौ शुभाशयौ । बभूवतुः सुरलोकश्रीभाजनमुभावपि ।।३० ।। दुष्टाशयस्तु गोपालो विधाय स्वामिवेदनाम् । सप्तमावनिदुःखानां भाजनं समजायत ।।३१।। [दशमे पर्वणि चतुर्थसर्गस्य ६१८ तः ६४८ श्लोकाः] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy