________________
२४०
तद्दर्शितगवाक्षेऽस्थाद्वयाजनिद्रामुपेत्य सः । दुश्चेष्टितं तयोर्द्रष्टुकामः कामान्धयोस्तयोः ।।४१।। मरुभूतिर्गतो ग्राममिति तावप्यशंकितौ । वसुन्धरा कमठश्च रेमाते दुर्मती चिरम् ।।४२।। ददर्शादर्शनीयं तन्मरुभूतिस्तथा स्थितः । लोकापवादभीरुस्तु विरुद्धं न समाचरम् ।।४३।। गत्वा तदाख्यदखिलं सोऽरविन्दाय भूभुजे । दुर्नयानसहिष्णुः सोऽप्यारक्षानेवमादिशत् ।।४४।। पुरोहितसुतत्वेनावध्योऽयं दुश्चरित्रकृत् । निर्वास्यः खरमारोप्य कमठः सविडंबनम् ।।४५।। तेऽपि रासभमारोप्य रसद्विरसडिंडिमम् । चित्रितांगं धातुरसैः कमठं निरवासयन् ।।४६ ।। पौरलोकैर्वीक्ष्यमाणोऽधोमुखः कमठोऽपि हि । अशक्नुवन् प्रतिकर्तुं ससंवेगो वनं ययौ ।। ४७ ।। अथाभवत्तपस्वी स शिवतापससन्निधौ । आरेभे च तपो बालं कमठस्तत्र कानने ।।४८ ।। मरुभूतिश्चानुशिष्ये धिङ्मया किमिदं कृतम् । नरेन्द्राय यदाख्यायि भ्रातुः स्खलितचेष्टितम् ।।४९।। इदं मदीयं स्खलितं महत्तत्स्खलितादपि । तद्गत्वा क्षमयाम्यद्य ज्यायांसं भ्रातरं निजम् ।। ५० ।। ध्यात्वेति भूभुजं पृष्ट्वा वार्यमाणोऽपि तेन सः । जगाम कमठं तस्य पादयोर्निपपात च ।। ५१ ।। स्मरन् विडंबनां पूर्वां तत्कालं कमठः क्रुधाः । शिलामुत्क्षिप्य चिक्षेप नमतस्तस्य मूर्धनि ।।५२।। प्रहारार्तस्य तस्योपर्यादाय पुनरेव ताम् । शिलां चिक्षेप कमठो नरके स्वमिवाभिनत् ।।५३।। तत्प्रहाररुजा सार्तध्यानो मृत्वाभवत्करी । स विन्ध्यपर्वते यूथनाथो विन्ध्य इवोच्चकैः ।।५४।। [नवमपर्वे द्वितीयसर्गस्य ३ तः ५६ श्लोकाः ] ४३. प्रद्वेषध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रमध्ये श्रीवीरं प्रति गोपस्य दृष्टान्तः । ग्रामं षण्मानिनामानं जगाम भगवानपि । बहिश्च कायोत्सर्गेण तस्थौ ध्यानपरायणः । । १ । । वेद्यं कर्म तदोदीर्णं प्रभोर्विष्णुभवाऽर्जितम् । शय्यापालश्रवः क्षिप्ततप्तत्रपुनिबन्धनम् ।।२।। शय्यापालस्य जीवोऽपि गोपालस्तत्र सोऽभवत् । स्वाम्यन्तिके वृषान्मुक्त्वा गोदोहादिकृते ययौ ।।३।। चरन्तः स्वेच्छया ते च प्राविशन्नटवीं वृषाः । क्षणात्सोऽप्याययौ गोपोऽपश्यन्नुक्ष्णोऽवदत्प्रभुम् ।।४।। देवार्य ! क्व ममोक्षाणः ? किं न ब्रूषे मुनिब्रुव ! । न श्रुणोषि वचः किं वा कर्णरन्ध्रे वृथैव तत् ।।५।। अवादिनि प्रभावेवमत्यन्तकुपितोऽथ सः । अक्षिपत्काशशलाके स्वामिनः कर्णरन्ध्रयोः ।।६।। शलाके ताडिते तेन तथा ते मिलिते मिथः । अखंडैकशलाकत्वं बिभरांचक्रतुर्यथा ।।७।। मा कृक्षत् कीलकावेतौ कोऽपीति स्वधिया कुधीः । तत्कीलकबहिर्भागं छित्त्वा गोपालको यौ ।।८।।
Jain Education International 2010_02
आतुरप्रत्याख्यानप्रकीर्णकम्
For Private & Personal Use Only
www.jainelibrary.org