________________
खण्ड:-२ दृष्टान्तसमुच्चय:
२३९
स्वाध्यायपौषधादानविधिनिष्ठः समाहितः । तस्थिवान् पौषधागारेऽहोरात्रानतिवाहयन् ।।१७।।
युग्मम्।।
प्रपद्य सर्वसावद्यविरतिं गुरुसन्निधौ । विहरिष्यामीति मतिर्मरुभूतेः सदाभवत् ।।१८।। प्रमादमदिरोन्मादी सदा मिथ्यात्वमोहितः । परस्त्रीद्यूतसंसक्तः स्वच्छन्दः कमठस्त्वभूत् ।।१९।। वसुन्धरा मरुभूतेर्भार्या सा नवयौवना । अभूज्जगन्मोहकरी विषवल्लीव जंगमा ।।२०।। सा पुनर्भावयतिना स्वप्नेऽपि मरुभूतिना । पयसा मरुवल्लीव नास्पृश्यत कदाचन ।।२१।। विषयेच्छुस्ततः सा चासंप्राप्तपतिसंगमा । अरण्यमालतीप्रायं मन्यते स्म स्वयौवनम् ।।२२।। स्त्रीलंपटः प्रकृत्यापि कमठो वीक्ष्य वीक्ष्य ताम् । आललापानुरागेण निर्विवेकः स्नुषामपि ।।२३।। तां रहःस्थां च कमठो दृष्ट्वान्येधुरदोऽवदत् । कृष्णपक्षेन्दुलेखेव किं सुभ्रु क्षीयतेऽन्वहम् ।।२४ ।। ह्रिया न चेत्कथयसि ज्ञातं दुःखं तथापि ते । मुग्धो मदनुजो मन्ये क्लीबमानोऽत्र कारणम् ।।२५ ।। श्रुत्वेति वचनं तस्यामर्यादं जातवेपथुः । पलायितुं प्रववृते भ्रश्यत्संव्यानकुन्तला ।।२६।। कमठोऽपि हि धावित्वा पाणिना तामधारयत् । ऊचे च मुग्धे किमियमस्थाने तव भीरुता ।।२७ ।। श्लथं बधान धम्मिल्लं स्रस्तं संस्थापयांशुकम् । इत्युक्त्वा स तथा चक्रेऽनिच्छन्त्या अपि हि स्वयम् ।।२८ ।। साप्यूचे ज्येष्ठ किमिदं पूज्यस्त्वं विश्वभूतिवत् । कुलद्वयकलंकाय न ते न मम साध्विदम् ।।२९ ।। स्मित्वा च कमठः स्माह मौग्ध्यान्मा स्म ब्रवीरिदम् । मा निजं यौवनं मोघीकुरु भोगविवर्जितम् ।।३० ।। मयापि सह मुग्धाक्षि भुंक्ष्व वैषयिकं सुखम् । क्लीबेन किं तेन मरुभूतिनाद्यापि यत्स्मृतिः ।।३१।। नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।।३२।। भृशं भोगेप्सुरग्रेपि तेनेत्युक्ता तु साग्रतः । स्वांके निवेशितात्याक्षील्लज्जां मर्यादया सह ।।३३।। अथ तां रमयामास कमठो मन्मथातुरः । नित्यमेवं तयोरासीद्गुप्तगुप्तो रहः क्षणः ।।३४ ।। तं ज्ञात्वा वरुणा त्यक्तकरुणारुणलोचना । ईर्ष्यापरवशा चख्यावशेषं मरुभूतये ।।३५ ।। उवाच मरुभूतिस्तामार्ये नायें भवत्यदः । अनार्यचरितं जातु संताप इव शीतगौ ।।३६।। एवं तेन निषिद्धापि साख्यत्तच्च दिने दिने । कः परप्रत्ययात्प्रत्येत्विति सोऽपि व्यचिन्तयत् ।।३७ ।। साक्षात्कर्तुं स्वयमथ संभोगविमुखोऽपि सन् । गत्वोचे कमळं यास्याम्यहं ग्रामाय संप्रति ।।३८ ।। इत्युक्त्वागान्मरुभूतिर्नक्तं च पुनराययौ । श्रान्तकर्पटिकीभूय वेषभाषाविपर्ययात् ।।३९ ।। ययाचे कमळं दूराध्वगस्य मम देहि भोः । आश्रयं स्वाश्रय इति ददौ सोऽप्यविशंकितः ।।४०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org