SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २३८ आतुरप्रत्याख्यानप्रकीर्णकम् तव्रतायानुमन्यस्व मां त्वमप्यनयाहि नः । कुलधर्मः क्षत्रियाणां स्वसन्धापालनं खलु ।।२५।। उदयं प्रतिबोध्यैवं वज्रबाहुरुपाययौ । सागरं गुणरत्नानां महर्षि गुणसागरम् ।।२६।। तत्पादान्ते वज्रबाहुः परिव्रज्यामुपाददे । उदयो मनोरमाथ कुमाराः पञ्चविंशतिः ।।२७ ।। वज्रबाहुं प्रव्रजितं श्रुत्वा विजयभूपतिः । वरं बालोऽप्यसौ नाहमिति वैराग्यमासदत् ।।२८ ।। ततश्च विजयः पुत्रं राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुनेः पार्श्वे व्रतमुपाददे ।।२९ । । पुरन्दरोऽपि स्वे राज्ये पृथिवीकुक्षिजं सुतम् । न्यस्त कीर्तिधरं क्षेमङ्करर्घ्यन्तेऽभवद्यतिः ।।३०।। [सप्तमपर्वे चतुर्थसर्गस्य १ तः ३० श्लोकाः] ४३. प्रद्वेषध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे मरुभूतिकमठयोः चरित्रम् । अस्यैव जंबूद्वीपस्य क्षेत्रेऽस्ति भरताभिधे । नगरं पोतनपुरं स्व:खंडमिव नूतनम् ।।१।। निषेवितं राजहंसैः श्रीसंकेतनिकेतनम् । आपगायाः पद्मखंडमिव तन्मंडनं भुवः ।।२।। इभ्या बभासिरे तत्र श्रिया श्रीदानुजा इव । कल्पद्रुमस्य सोदर्या इवौदार्येण भूयसा ।।३।। तदभूदमरावत्यास्तस्य वाप्यमरावती । प्रतिच्छन्दतया वाचामगोचरमहर्दिकम् ।।४।। अर्हत्पादारविन्दालिररविन्दोऽभिधानतः । तत्राभूद्भूपतिः स्थानं श्रियः पतिरिवार्णसाम् ।।५।। स दोष्मसु यथैवैकस्तथैवाभूद्विवेकिषु । यथा लक्ष्मीवतां धुर्यस्तथैव हि यशस्विनाम् ।।६।। यथा हि द्रविणं दीनानाथदुःस्थितजन्तुषु । अहोरात्रं संविभेजे पुमर्थेषु तथैव सः ।।७।। राज्ञस्तस्यानुरूपोऽभूज्जीवाजीवादितत्त्ववित् । परमश्रावको विश्वभूतिविप्रः पुरोहितः ।।८।। कमठो मरुभूतिश्चानुद्धराकुक्षिसंभवौ । उभौ ज्यायः कनीयांसावभूतां तस्य चात्मजौ ।।९।। बभूव वरुणा नाम कमठस्य सधर्मिणी । वसुन्धरा मरुभूते रूपलावण्यशालिनी ।।१०।। द्वावधीतकलौ तौ च द्वावप्यर्थार्जनक्षमौ । बभूवतुर्मिथः स्निग्धौ पित्रोरानन्दकारणम् ।।११।। स्मरन् पञ्चपरमेष्ठिनमस्कारं समाहितः । विश्वभूतिर्विपद्याभूत् सौधर्मे प्रवरः सुरः ।।१२।। तद्वियोगज्वराक्रान्ता तस्य पत्न्यप्यनुद्धरा । शुक्तपोभ्यां शोषितांगी नमस्कारपरा मृता ।।१३।। पित्रोः परेतकार्याणि चक्राते भ्रातरौ च तौ । क्रमादभूतां चाशोकौ हरिश्चन्द्रर्षिबोधितौ ।।१४।। गृहकार्येषु तत्रास्थात्कमठः कर्मठः सदा । विपन्ने पितरि प्रायो ज्यायान् पुत्रो धुरन्धरः ।।१५।। मरुभूतिस्तु संसारासारत्वविदुरः सदा । विमुखो विषयोभ्योऽभूत् सन्न्यस्त इव भोजनात् ।।१६।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy