SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः २३७ ४१. हासध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे श्रीवज्रबाहुकथानकम् । इतश्च मिथिलापुर्यां हरिवंशे महीपतिः । आसीद्वासवकेत्वाख्यो विपुला तस्य च प्रिया ।।१।। तयोः सूनुरनूनश्रीर्बभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ।।२।। इतश्च पुर्ययोध्यायामृषभस्वामिराज्यतः । इक्ष्वाकुवंशान्तर्भूतादित्यवंशेषु राजसु ।।३।। यातेषु केषुचिन्मोक्षं स्वर्ग यातेषु केषुचित् । सङ्ख्यातीतेषु विंशस्याहतस्तीर्थे प्रसर्पति ।।४।। बभूव विजयो राजा हिमचूला च तत्प्रिया । तयोरभूतां द्वौ पुत्रौ वज्रबाहुपुरन्दरौ ।।५।। इतश्चाभूनागपुरे पुरे राजेभवाहनः । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा ।।६।। गत्वोद्यद्यौवनां वज्रबाहुः परिणिनाय ताम् । महेन महता श्वेतमरीचिरिव रोहिणीम् ।।७।। भक्त्या च श्यालेनोदयसुन्दरेणानुगामिना । मनोरमामथादाय प्रतस्थे स्वपुराय सः ।।८।। स गच्छन्नन्तरापश्यत्तपस्तेजोभिरीश्वरम् । वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् ।।९।। मोक्षाध्वमीक्षकमिवोत्पश्यमातापनापरम् । गुणसागरनामानं तपस्यन्तं महामुनिम् ।।१०।। युग्मम्।। मयूर इव जीमूतं तं दृष्ट्वा जातसम्मदः । कुमार इदमाह स्म धृत्वा सपदि वाहनम् ।।११।। अहो महात्मा कोऽप्येष वन्द्य एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भूयसा ।।१२।। उवाच चैवमुदयसुन्दरोऽथ कुमार किम् । आदित्ससे परिव्रज्यां सोऽवदच्चित्तमस्ति मे ।।१३।। उदयो नर्मणा भूयः प्रोचे यद्यस्ति ते मनः । तदद्य मा विलम्बस्व सहायोऽहमपीह ते ।।१४।। कुमारो व्याजहारैवं मर्यादामिव वारिधिः । मा त्याक्षीः स्वामिमां सन्धां सोऽप्योमेवेत्यभाषत ।।१५।। कुमारो वाहनान्मोहादिवोत्तीर्यारुरोह तम् । वसन्तशैलमुदयसुन्दरादिभिरावृतः ।।१६।। वज्रबाहुमथावादीदिभवाहननन्दनः । स्वामिन्मा प्रव्राजीरद्य धिग्मे नर्माभिभाषणम् ।।१७।। नर्मोक्तिरावयोरासीत् को दोषस्तव्यतिक्रमे । नर्मोक्तिर्न हि सत्यैव प्रायो धवलगीतवत् ।।१८।। भविष्यसि सहायस्त्वं व्यसनेष्वखिलेष्वपि । इत्यकाण्डेऽपि मा भाङ्क्षीरस्मत्कुलमनोरथान् ।।१९।। इदमद्यापि माङ्गल्यं तव हस्तेऽस्ति कङ्कणम् । तद्विवाहफलं भोगान् सहसा कथमुज्झसि ।।२०।। सांसारिकसुखास्वादवञ्चितेयं मनोरमा । जीविष्यति कथं नाथ त्वया तृणवदुज्झिता ।।२१।। वज्रबाहुकुमारोऽथ जगादोदयसुन्दरम् । सुन्दरं मर्त्यजन्मद्रोः फलं चारित्रलक्षणम् ।।२२।। नर्मोक्तिरपि तेऽस्मासु बभूव परमार्थसात् । शुक्तिषु स्वातिजीमूतवारि मौक्तिकसादिव ।।२३।। त्वत्स्वसा च कुलीना चेत्तत्प्रव्रज्यां ग्रहीष्यति । नो चेदस्याः शिवः पन्था भोगैः पुनरलं मम ।।२४ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy