________________
२३६
आतुरप्रत्याख्यानप्रकीर्णकम्
ततस्तत्सुहदैकेनानीते भस्मनि साधुराट् । तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ।।१४ ।। तद्विलोक्य विषण्णास्तद्वयस्यास्तमथाभ्यधुः । मित्र ! सद्यः पलायस्व, धाम यामो वयं यथा ।।१५।। आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिन्तयत् । कथं गच्छाम्यहं गेहं, स्ववाचा स्वीकृतव्रतः ।।१६।। प्रमादसङ्गतेनापि, या वाक् प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णाक्षरालीवाऽन्यथा भवेत् ।।१७ ।। नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । जहाति धुमणिं को हि, विनायासमुपस्थितम् ।।१८।। ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मुस्तद्वयस्या विषादिनः ।।१९।। विनेयोऽथावदत्सूरिं, भगवन् ! बन्धवो मम । श्रामण्यं मोचयिष्यन्ति, तद्यामोऽन्यत्र कुत्रचित् ।।२०।। गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यज्जनैः । ज्ञायते तद् द्वयोरेवाऽऽवयोर्गमनमर्हति ।।२१।। सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय । यथा रजन्यां गच्छमः, सोऽप्यालोक्य तमाययौ ।।२२।। प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् । पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ।।२३।। अपश्यनिशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः । वेदनाविह्वलो जज्ञे, ज्वलद्रोषभराकुलः ।।२४।। हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् । दण्डेन शिष्यं शिरसि, कृतलोचे जघान सः ।।२५।। तत्प्रहारस्फुटन्मौलिर्निर्गच्छद्रुधिरोऽपि सः । न व्यब्रवीन्नाप्यकुप्यत्, प्रत्युतैवमचिन्तयत् ।।२६ ।। स्वगच्छमध्ये ससुखं, तिष्ठन्तोऽमी महाशयाः । अधन्येन मया दुःखभाजनं विहिता हहा ! ।।२७।।
आजन्मसौख्यदाः शिष्या, गुरोः स्युः कोऽपि धीधनाः ।
आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ।।२८ ।। स्थाण्वादिना गुरोः पीडा, माभूद्भूयोऽपि भूयसी । ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ।।२९ ।। तस्यैवं व्रजतः शुद्धाशयस्य समतानिधेः । महात्मनः समुत्पेदे, निशायामेव केवलम् ।।३०।। अथ प्रभाते संजातेऽभ्युदिते च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ।।३१।। ततः शान्तरसाचांतस्वान्तः सूरिरचिन्तयत् । अहो ! नवीनशिष्यस्याऽप्यमुष्य क्षान्तिरुत्तमा ।।३२।। क्रोधाध्मातेन मयका, दण्डेनैवं हतोऽपि यत् । नातनोद्वाड्मनोदेहै-वैगुण्यं किञ्चिदप्यसौ ।।३३।। चिरप्रव्रजितस्यापि, रोषदोषांश्च जानतः । प्राप्ताचार्यपदस्यापि, धिग्मे प्रबलकोपताम् ! ।।३४ ।। इयच्चिरं सुदुष्पालं, पालितं मयका व्रतम् । परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम् ।।३५ ।।
भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनीन्द्रः । एवमुत्कटरुषोऽपि गुरोः स्युर्मोक्षदाः सविनयाः सुविनेयाः ।।३६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org