________________
खण्डः - २ दृष्टान्तसमुच्चयः
तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम् । अमेध्यगन्धविध्वंसे भवेन्नृजलमौषधम् ।।३९।। अथैत्य सुलसस्तं तु कटुतिक्तान्यभोजयत् । अपाययदपोऽत्युष्णास्तप्तत्रपुसहोदराः ।। ४० ।। भूयिष्ठविष्ठया सुष्ठु सर्वाङ्गीणं व्यलेपयत् । ऊर्वकण्टकमय्यां च शय्यायां पर्यसूत् ।।४१।। श्रावयामास चक्रीवत्-क्रमेलकरवान् कटून् । रक्षो-वेताल-कङ्कालधोररूपाण्यदर्शयत् ।।४२।। तैः प्रीतः सोऽब्रवीत् पुत्रं चिरात् स्वाद्वद्य भोजनम् । शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ।।४३।। शब्दः श्रुतिसुधाऽमूनि रूपाण्येकं सुखं दृशोः ।
भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ।।४४ ।। तच्छ्रुत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके किं भविष्यति ।। ४५ ।। सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ।।४६।। [मूलश्लोक-३० वृत्तौऽऽन्तर श्लोक १०७ तः १२८] ४१. हासध्याने श्रीमद्भावविजयकृतश्रीउत्तराध्ययनवृत्तौ श्रीचण्डरुद्राचार्यशिष्यकथा । उज्जयिन्यां पुरि स्नात्रो-द्याने नन्दनसन्निभे । चण्डरुद्राभिधः सूरिः सगच्छः समवासरत् ।।१।। ऊनाधिकक्रियादोषान्, स्वगच्छीयतपस्विनाम् । दर्शं दर्शं स चाकुप्यत्, प्रकृत्याप्यतिरोषणः ।।२।। भूयसां वारणं ह्येषां मयैकेनातिदुष्करम् । परं रोषातिरेकान्मे, स्वहितं न हि जायते ।। ३ ।। ध्यात्वेति सूरिरेकान्ते, तस्थौ सद्ध्यानहेतवे ।
तप्तं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ||४|| ( युग्मम् )
इतश्चोज्जयिनीवासी, व्यवहारिसुतो युवा । आगात्कुंकुमलिप्ताङ्गो, नवोढस्तत्र मित्रयुक् । । ५ । । साधून् दृष्ट्वा परीहासपूर्वकं तान् प्रणम्य च । सोऽवादीद्भगवन्तो मे, धर्मं ब्रूत सुखाकरम् ।।६।। वैहासिकोऽयमिति ते, ज्ञात्वा नो किञ्चिदूचिरे । ततो भूयः स निर्ग्रन्थान्, सोपहासमभाषत ।।७।। दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् । तत् प्रसद्य भवांभोधितारकं दत्त मे व्रतम् ।।८।। धूर्त्तः प्रतारयत्यस्मान्नर्मवाक्यैर्मुहुर्मुहः । तद्वृष्यतामसौ सम्यक्, चिन्तयित्वेति ते जगुः ।। ९ ।। गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे । तदाश्रय व्रताय त्वमस्मद्गुरुमितः स्थितम् ।।१०।। श्रुत्वेति सवयस्योऽथ, सोऽव्रजत्सूरिसन्निधौ । अब्रवीत्तं च वन्दित्वा, सोपहासं कृताञ्जलिः ।। ११ । । गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाब्जयोः । तत्प्रव्राजय मां स्वामिंस्तिष्ठामि ससुखं यथा ।।१२।। सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः । सूरिर्जगौ व्रतेच्छुश्चेत्तदा भस्मानय द्रुतम् ।।१३।।
Jain Education International 2010_02
२३५
For Private & Personal Use Only
www.jainelibrary.org