________________
२३४
आतुरप्रत्याख्यानप्रकीर्णकम
जीवन् धर्मं विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाऽभयमभाषत ।।१५।। जीवन् पापपरो मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोचे मा जीव मा मृथाः ।।१६।। तच्छ्रुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ कथं मे नरके गतिः ।।१७।। बभाषे भगवानेवं पुरा त्वमसि भूपते । बद्धायुर्नरके तेन तत्रावश्यं गमिष्यसि ।।१८।। शुभानामशुभानां वा फलं प्राग्बद्धकर्मणाम् । भोक्तव्यं तद् वयमपि नान्यथा कर्तुमीश्महे ।।१९।। आद्यो भाविजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिधो राजन् खेदं मा स्म कृथास्ततः ।।२०।। श्रेणिकोऽथावदन्नाथ किमुपायोस्ति कोऽपि सः । नरकाद् येन रक्ष्येऽहमन्धकूपादिवान्धलः ।।२१।। भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत् कपिलया भिक्षां दापयसे मुदा ।।२२।। कालसौकरिकात् सूनां विमोचयसि वा यदि । तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा ।।२३।। सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति ।।२४ ।।
[मूलश्लोक-३० वृत्तौऽऽन्तरश्लोक-८३ तः ९५] राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता । भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोञ्चयैः ।।२५ ।। कपिलोचे विधत्से मां सर्वां स्वर्णमयीं यदि । हिनस्सि वा तथाप्येतदकृत्यं न करोम्यहम् ।।२६।। कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्च यत् । दास्येऽहमर्थमर्थस्य लोभात् त्वमसि सौनिकः ।।२७ ।। सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ।।२८ ।। सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् ।।२९।। अथ विज्ञपयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ।।३०।। सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृण्मयान् ।।३१।। तद् गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः । धिगहो मे पुरा कर्म, नान्यथा भगवगिरः ।।३२ ।। पञ्च पञ्च शतान्यस्य महिषान्निध्नतोऽन्वहम् । कालसौकरिकस्योच्चैः पापराशिरवर्द्धत ।।३३।। इहापि रोगास्तस्याऽऽसन् दारुणैरतिदारुणाः । पर्यन्तनरकप्राप्तेरुपयुत्कलितैरघैः ।।३४ ।। हा तात हा मातरिति व्याधिबाधाकदर्थितः । वध्यमानसूकरवत् कालसौकरिकोऽरटत् ।।३५ ।। सोऽङ्गना-तूलिका-पुष्प-वीणा-क्वणित-मार्जिताः । दृष्टि-त्वग्-नासिका-कर्ण-जिह्वाशूलान्यमन्यत ।।३६ ।। ततस्तस्य सुतस्ताद्दक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाऽभयायाऽभयदायिने ।।३७।। ऊचेऽभयस्त्वत्पिता यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां फलमत्रैव लभ्यते ।।३८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org