________________
खण्ड - २ दृष्टान्तसमुच्चयः
२३३
चाणक्य- पर्वतकसहितः । तत्रैका कन्याऽभवत्, आजन्म तां नन्दः शनैर्विषमं विषमभोजयत् । तां वीक्ष्य पर्वतको विषयार्तोऽङ्गसङ्गं चकार । तेन विषव्याप्तश्चन्द्रं जगौ - " सद्यः कञ्चित्प्रतिकारं कुरु" । स प्रतिक्रियाकरणोद्यतोऽभूत्, तदा चाणाक्येन भ्रूसंज्ञया निषिद्धः शिक्षितश्च यतः
"
तुल्यार्थं तुल्यसामर्थ्यं, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ॥ | १ || ततः स पर्वतो नामशेषतां प्रपेदे । तस्य राज्यं चन्द्रगुप्ताधीनं जातम् । अथ चन्द्रगुप्तराज्ये नन्दनराश्चौर्यं व्यधुः । ततश्चाणाक्योऽन्यं कञ्चिदारक्षकममार्गयत् । ततो भ्रमन्नलदाह्वकुविन्दस्य गृहेऽगात् । तं मर्कोटकगृहेष्वग्निं क्षिपन्तं ददर्श । चाणाक्यः किं करोषीति तमप्राक्षीत् । कुविन्दः स्माह-" मत्सूनोर्दशदायिनो दुष्टानेतान्मर्कोटकान् सान्वयान् हन्तुं बिलेष्वहमनलं प्रक्षिपामि " । इति तस्य गिरा तं कर्मठं सोद्यमं ज्ञात्वा तस्मै पुराध्यक्षतां चन्द्रगुप्ताददापयत् । एवं मौर्यस्य राज्यं निष्कण्टकं जातम् ।
४०. हिंसाध्याने श्रीयोगशास्त्रव्याख्यायां कालसौकरिकस्याख्यानकम् ।
अन्यदा श्रीमहावीरो विहरन् परमेश्वरः । जगत्पूज्यः पुरे तस्मिन्नागत्य समवासरत् ।।१।। श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः || २ || यथास्थानं निषण्णेषु देवादिषु जगद्गुरुः । प्रारेभे दुरितध्वंसदेशनीं धर्म्मदेशनाम् ।।३।। तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे ||४|| ततो भगवतः पादौ निजपूयरसेन सः । निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ।। ५ ।। तद्वीक्ष्य श्रेणिकः क्रुद्धो दध्यौ वध्योऽयमुत्थितः । पापीयान् यज्जगद्भर्त्तर्य्यमाशातनापरः ।।६।। अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वेत्यथ जीवेति श्रेणिकेन क्षुते सति ।।७।। क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ।। ८ ।। जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद् भटान् ।।९।। देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव सूकरः ।।१०।। स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्नर्कबिम्बविडम्बनाम् ।।११।। [योगशास्त्र द्वितीयप्रकाश मूलश्लोक-३० वृत्तौऽऽन्तरश्लोक ५ तः १५] अथोचे श्रेणिकः स्वाभिन्नमङ्गल्यं प्रभोः क्षुते । एषोऽन्येषां तु मङ्गल्या-ऽमङ्गल्यानि जगाद किम् ।।१२।। अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेत्युवाच सः ।।१३।। स त्वां जगाद जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल मृतस्य हि गतिस्तव ।। १४ ।।
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org