SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २३२ आतुरप्रत्याख्यानप्रकीर्णकम् पलायत । ततो नन्दाश्ववारास्तत्पृष्ठ आजग्मुः, तेषां मध्य एकोऽश्ववारो दूरात्ताभ्यां दृष्टः । नतश्चाणाक्यश्चन्द्रं सरसि संगोप्य स्वयं रजककर्म प्रारेभे । इतश्च सोऽश्ववारस्तं पप्रच्छ-"चन्द्रगुप्तो व्रजन्नत्र त्वया दृष्ट: ?" । सोऽप्यूचे-“अत्र सरसि प्रविष्टोऽस्ति” । ततः स कौपीनमात्रभृज्जले विवेश । तदा चाणाक्यस्तस्यैव खड्गेन तच्छिरोऽच्छिनत् । ततश्चन्द्रं तस्मिन्नश्वे आरोप्य स पुरतोऽचालीत् । स चन्द्रं पप्रच्छ-“हे वत्स ! यदा मया सादी सरसि प्रेषितस्तदा त्वया किं ध्यातम् ?" । “हे पूज्य ! उत्तमाः कुर्वन्ति तच्छ्रेष्ठमेवे"ति विनयवाक्यात्स हृष्टः । ततश्चन्द्रं क्षुधा बाधितं ज्ञात्वा स्वयं भोजनग्रहणार्थं व्रजन् पथि अनन्तरभुक्तकरम्बकं विप्रमेकं वीक्ष्य चाणाक्यस्तस्योदरं विदार्य तद्भोज्यं हत्वा चन्द्रमभोजयत् । सोऽपि क्षुधितस्तद्रसविपर्ययं नाज्ञासीत् । अथ मौर्ययुक्तः । स दिनात्यये एकत्र ग्रामे भिक्षायै भ्रमन् रोरगृहे ययौ । तदा वृद्धयैकया स्वछालानां भूयसामुष्णा रब्बा परिवेषिता । एकः शिशुः क्षुधितो रब्बायां करं प्राक्षिपत्, तेन दग्धाङ्गलिरुच्चैरुरोद, तं वृद्धाऽभाषत-“रे मूढ ! चाणाक्यवत्त्वमपि जडोऽसि" । तच्छ्रुत्वा भिक्षुणा पृष्टम्-“हे मातः ! त्वया चाणाक्यनिदर्शनमत्र कथं चक्रे" । सा तं स्माह-“यथा पूर्वं चाणाक्यो बाह्यं देशमसाधयन् पाटलिपुरं रुन्धानो मूढो विगोपनां प्राप तथैव बालकोऽपि शनैः परितोऽलिहन् मध्य एव पाणिं क्षिपन्नत्युपहासमासदत्" । तद्वाक्यं श्रुत्वा शिक्षा सत्यां निर्धार्य चाणाक्यो भ्रमन् क्रमात् पर्वताभिधेन राज्ञा समं गाढमैत्रीं विदधे । अन्येद्युस्तं नृपं स स्माह-“चेत्समीहसे तदा नन्दमुन्मूल्य तद्राज्यं विभज्यादद्वहे" । ततः ससैन्यः पर्वतकश्चन्द्रगुप्तान्वितश्चाणाक्यवाक्यानन्ददेशस्य साधनं प्रारेभे । तदैकं पुरं बलाद्ग्रहीतुमक्षमं मत्वा भिक्षुवेषभृञ्चाणाक्यस्तत्र विवेश । प्रविश्य च वास्तूनि संप्रेक्षमाणः सप्रभावाः सप्त देवीरिन्द्रकुमारिका अपश्यत्, तासां प्रभवादभङ्गं तत्पुरमवबुध्य 'मयैताः कथमुच्छाप्याः ?" इति यावता विममर्श तावता पुररोधार्ता नागरास्तं पप्रच्छु:-"भगवन् ! अयं पुररोधः कदा प्रयास्यति ?" । सोऽवक्-“यावदमूः देवीनां प्रतिमा अत्र भवन्ति तावत्पुररोधक्षतिः कुतः" ?। ततो धूर्तप्रतारिताः पौराः तस्मात् स्थानात्ताः क्षिप्रमुदपाटयन् । ततः शीघ्रं तत्पुरं ताभ्यां गृहीतम् । इच्छं नन्ददेशं प्रसाध्य नन्दपुरमवेष्ट्यताम् । तदा च क्षीणपुण्यत्वात् चाणाक्यस्यान्तिके नन्दो धर्मद्वारमयाचत । स स्माह-“त्वमेकेन रथेन यन्नेतुमीशस्तदादाय निर्भयः पुरानिर्याहि" । नन्दोऽपि भार्याद्वयं कन्यामेकां सारधनं च रथेऽधिरोप्य नगरान्निर्ययौ, चन्द्रगुप्तादयः पुरे प्रवेष्टुमागताः । तदा नन्दसुताऽनुरागपरा चन्द्रं पश्यति, तदा नन्दोऽवक्-“हे पुत्रि ! यद्यसौ स्वामी तव रोचते तदाङ्गीकुरु” । तेनेत्युक्ता सा चन्द्रगुप्तरथे यावदारोढुमुपचक्रमे तावञ्चक्रारका नवाभज्यन्त । चन्द्रोऽमङ्गलकरीं तां ज्ञात्वा न्यवारयत् । तं प्रति चाणाक्यः स्माह-"वत्स ! मा मा निषेधय, अनेन निमित्तेन नव पुरुषान् यावत्ते वंशो भावी" । ततश्चन्द्रस्तां रथेऽधिरोप्य नन्दगृहे ययौ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy