________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२३१
भ्रातुर्विवाहे पितृगृहेऽगात्, परं निर्धनत्वेन भ्रातृजायादयोऽस्याः प्रतिपत्तिं न चक्रिरे, भोजनादावपि पङिक्तभेदं व्यधुः, ततोऽतिदौःस्थ्यालज्जिता पत्युर्गृहेऽगात् । ततः शोकभरां तां वीक्ष्य भर्ना सनिर्बन्धं पृष्टा मुक्ताव्यूहोपममश्रुव्रजं मुञ्चन्ती स्माह तं पराभवम् । तच्छ्रुत्वा चाणक्यो दध्यौ
कलावान् कुलवान् दाता, यशस्वी रूपवानपि । विना श्रियं भवेन्मयों, निस्तेजाः क्षीणचन्द्रवत् ।।१।। नन्दभूपो विप्राणां धनं बहुलं ददाति इति विमृश्य स पाटलिपुरं द्राग् जगाम । तत्र राजसभायां गत्वा नृपासनमशिश्रियत् । अथ नन्दनृप एकेन सिद्धपुत्रेण निमित्तज्ञेन संयुत उपागमत् । तत्रस्थं चाणाक्यं वीक्ष्य सिद्धपुत्रोऽब्रवीत्-“असौ विप्रो नन्दवंशस्य च्छायामाक्रम्य तिष्ठति" । ततश्चाणाक्यमुर्वीशदास्युवाच-"भगवन् ! इदं द्वितीयं सिंहविष्टरमध्यास्स्व" । सोऽवक्-"अस्मिन्नासने मत्कमण्डलुः स्थास्यति" । इत्युत्वा तत्र तं न्यस्याद्यमासनं न त्यक्तवान् । ततस्तृतीयं दण्डेन चतुर्थं चाक्षमालया पञ्चमं ब्रह्मसूत्रेण सोऽरुणत् ! ततो दासी जगौ-"अहो अस्य धाष्ट्यं जडत्वं च” । स रुष्टोऽहिणा तामाहत्य सर्वसमक्षमित्युवाच
कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् ।
उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ।।१।। अनेन भिक्षुणा किं स्यादिति राज्ञाऽप्युपेक्षितः स निरगात्, भ्रमंश्च नन्दभूपतेर्मयूरपोषकग्रामेऽगात् । तत्र परिव्राजकवेषेणाभ्रमत् । तत्र ग्रामणीपुत्र्याश्चन्द्रपानदोहदोऽजनि, तं पूरयितुं कोऽपि नाशकत् । ततः पित्रादिभिश्चाणाक्यः प्रोक्तः, सोऽवक्-“तत्सुतं मम दत्त चेत्तदाहं पूरयामि" । "अपूर्णदोहदागर्भान्विता मा म्रियताम्" इति विमृश्य तैस्तस्य वचनं स्वीकृतम् । अथ स सच्छिद्रं पटमण्डपमचीकरत, तस्योपरि प्रच्छन्नं शनैः शनैश्छिद्रपिधायकं नरममुञ्चत्, तस्य च्छिद्रस्याधस्तात् स्थालं पयोभृतं न्यधात्, निशीथे कार्तिकीचन्द्रस्तत्र प्रतिबिम्बितः, चान्द्रं प्रतिबिम्बमन्तर्वन्त्याः प्रदी स पिबेत्यूचे, ततस्तुष्टा सा तत्पातुं प्रचक्रमे, चन्द्रपानधिया स्थालपयः सा यथा यथाऽपात् तथा तथोपरिस्थो नरो मण्मपच्छिद्रं पिदधे । ततो दोहदे पूर्णे सा समये सुतं सुषुवे । चाणाक्यस्तु द्रव्यार्जनं प्रारेभे । तस्य पुत्रस्य चन्द्रगुप्त इति नाम कृतम् । ततः प्राप्तप्रौढवयाः स बाल: शिशुभिः सह भूपलीलया क्रीडति, देशपुरगोकुलहयगजामात्यादीन् स्थापयति । तत्र भ्रमन् चाणक्य एत्य प्राह-"हे बाल! ममापि किञ्चिद्देहि" । चन्द्रोऽवदत्-"इमाः सुरभीर्गृहाण" । स स्माह-"एता गृह्णन् बिभेमि" । चन्द्रोऽवक्-"मा भैषीः, वीरभोग्या भूरियं" । ततो हृष्टः स तस्य कुलादिकमन्येभ्यो ज्ञात्वा स्वकीयं बालं निर्धार्यत्यूचे-“हे वत्स ! एहि राज्यं ददामि" । तच्छ्रुत्वा द्रुतमायातं तं हत्वा द्राक् पलायिष्ट। ततः सेनां कृत्वा पाटलिपुरं रुद्धम् । नन्देन तत्सैन्यं क्षणेन जितम् । चन्द्रगुप्तश्चाणाक्येन समं
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org